________________
[अ०७। सू० ५।]
सप्तमोऽध्यायः ।
१५१
इहैव चाभिघातवधबन्ध नहस्तपादकर्णनासोत्तिरौष्ठच्छेदनभेदनसर्वस्वहरणवध्ययातानमारणादौन्प्रतिलभते प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति स्तेयाड्युपरमः श्रेयान् ॥ तथाब्रह्मचारी विधमोद्धान्तचित्तः विप्रकीर्णन्द्रियो महान्धो गज व निरङ्कुशः 5 शर्म नो लभते । मोहाभिभूतश्च कार्याकार्यानभिज्ञो न किंचिदकुशलं नारभते । परदाराभिगमनकृतांश्च इहैव वैरानुबन्धलिङ्गच्छेदनवधबन्धनद्रव्यापहारादीप्रतिलभते ऽपायान्प्रेत्य चाशुभां गतिं गर्हितश्च भवतीत्यब्रह्मणो व्युपरमः
श्रेयानिति ॥ तथा परिग्रहवान् शकुनिरिव मांसपेशौहस्तो 10 ऽन्येषां क्रव्यादशकुनानामिहैव तस्करादीनां गम्यो भवति ।
अर्जनरक्षणक्षयकृतांश्च दोषान्प्राप्नोति । न चास्य हप्तिर्भवतीन्धनैरिवाग्नेलेभाभिभूतत्वाच्च कार्याकार्यानपेक्षो भवति । प्रेत्य चाशुभां गतिं प्राप्नोति लुब्धो ऽयमिति च गर्हितो भवतीति परिग्रहाद्युपरमः श्रेयान् ॥ किं चान्यत्
दुःखमेव वा ॥५॥ दुःखमेव वा हिंसादिषु भावयेत् ॥ यथा ममाप्रियं दुःखमेवं सर्वसत्त्वानामिति हिंसाया व्युपरमः श्रेयान् ॥ यथा मम मिथ्याभ्याख्यानेनाभ्याख्यातस्य तौवं दुःखं भूतपूर्वं भवति च
तथा सर्वसत्त्वानामिति अनृतवचनाड्युपरमः श्रेयान् ॥ यथा 20 ममेष्टद्रव्यवियोगे दुःखं भूतपूर्व भवति च तथा सर्वसत्त्वानामिति * D बन्ध for बन्धन। + K नासो। + S वध्यपान। _$ D adds च ।
१ कृतान् = जनितान् s.