________________
१५०
तत्त्वाधिगमसूत्रम् । [अ सू. ३।] सत्यवचनस्यानुवौचि*भाषणं क्रोधप्रत्याख्यानं लोभप्रत्याख्यानमभीरुत्वं हास्यप्रत्याख्यानमिति ॥ अस्तेयस्यानुवौच्यवग्रहयाचनमभीक्षणावग्रहयाचनमेतावदित्यवग्रहााधारणं समानधार्मिकेन्यो ऽवग्रहयाचनमनुज्ञापितपानभोजनमिति ॥ ब्रह्मचर्यस्य स्त्रीपशुपण्डकसंमतशयनासनावर्जनं रागमयुक्तस्त्रीकथावर्जनं स्त्रीणं । मनोहरेन्द्रियालोकनवर्जनं पूर्वरतानुस्मरणवर्जनं प्रणोतरमभोजनवर्जनमिति ॥ प्राकिञ्चनस्य पञ्चानामिन्द्रियार्थानां स्पर्शरसगन्धवर्णशब्दानां मनोज्ञानां प्राप्तौ गायवर्जनममनोज्ञानां प्राप्तौ देषवर्जनमिति ॥ किं चान्यदिति हिंसादिधिहामुच चापायावद्यदर्शनम् ॥४॥ 10
हिंसादिषु पञ्चखास्रवेष्विहामुत्र चापायदर्शनमवद्यदर्शनं च भावयेत् । तद्यथा। हिंसायास्तावत् हिंस्रो हि नित्योइजनीयो नित्यानुबद्धवैरश्च । इहैव वधबन्धपरिक्ले शादीप्रतिलभते प्रेत्य चाशभां गति। गर्हितश्च भवतीति हिंमाया व्युपरमः श्रेयान् ॥ तथान्तवाद्यश्रद्धेयो भवति। इहैव जिहाछेदादौ प्रतिलभते 15 मिथ्याभ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यस्तदधिकान्दुःखहेन्प्राप्नोति प्रेत्य चाशुभां गतिं गर्हितश्च भवतीत्यनृतवचनाड्युपरमः श्रेयान् ॥ तथा स्तनः परद्रव्यहरणप्रसक्तमतिः सर्वस्योद्देजनौयो भवतीति**।
* D वीची। + C अवग्रहधारणं। D शासन। 8 H चालोचन ।
|| Here, and in the following sentences except the last, the word srailfa seems to have been left out. II SD वेदनादौनि।
** Comits fal