________________
अथ सप्तमोऽध्यायः।
अत्राह । उकं भवता सद्देद्यस्यास्रवेषु भूतव्रत्यनुकम्पति [VI. 18] । तत्र किं व्रतं को वा व्रतीति । अत्रोच्यते हिंसातस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥१॥
हिंसाया अनृतवचनात्स्तेयादब्रह्मतः परिग्रहाच्च कायवान5 नोभिर्विरतिव्रतम् । विरति म ज्ञात्वाभ्युपेत्याकरणम् । करणं निवृत्तिरुपरमो विरतिरित्यनर्थान्तरम् ॥
देशसर्वतो ऽणुमहतौ ॥२॥ एभ्यो हिमादिभ्य एकदेशविरतिरणुव्रतं सर्वतो विरतिर्महाव्रतमिति ॥
10
तत्स्थैयार्थ भावनाः पञ्च पञ्च* ॥३॥
तस्य पञ्चविधस्य व्रतस्य स्थैर्यार्थमेकैकस्य पञ्च पञ्च भावना भवन्ति । तद्यथा । अहिंसायास्तावदौर्यासमितिर्मनोगुप्तिरेषपासमितिरादाननिक्षेपणासमितिरालोकितपानभोजनमिति ॥
• Var. S. पञ्चमः पञ्च ।