________________
तत्त्वार्थाधिगमसूत्रम् । [१० । मू-9-4)
अशुभः पापस्य ॥४॥ --- तत्र मवेद्यादि पुण्यं वक्ष्यते [VIII. 26] । शेषं पापमिति ॥ सकषायाकषाययोः साम्परायिकेर्यापथयोः॥५॥
स एष त्रिविधो ऽपि योगः मकषायाकषाययोः साम्परायिकर्यापथयोरासवो भवति यथासङ्ख्यं यथासम्भवं च । सकषायस्य । योगः साम्परायिकस्य । अकषायस्येर्यापथस्यैवैकसमयस्थितेः ॥
अव्रतकषायेन्द्रियक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसङ्ख्याः पूर्वस्य भेदाः॥६॥
पूर्वस्येति सूत्रक्रमप्रामाण्यात्साम्परायिकस्याह । साम्परायिकस्यास्रवभेदाः पञ्च चत्वारः पञ्च पञ्चविंशतिरिति भवन्ति ॥ 10 पञ्च हिंसानृतस्तेयाब्रह्मपरिग्रहाः । प्रमत्तयोगात्प्राणव्यपरोपणं हिंमा [VII. 8] इत्येवमादयो वक्ष्यन्ते ॥ चत्वारः क्रोधमानमायालोभा अनन्तानुबन्ध्यादयो वक्ष्यन्ते [VIII. 10] ॥ पञ्च प्रमत्तस्येन्द्रियाणि ॥ पञ्चविंशतिः क्रियाः । तमे क्रियाप्रत्यया यथासङ्ख्यं प्रत्येतव्याः । तद्यथा। सम्यक्वमिथ्यात्वप्रयोगसमादाने- 15
पथाः कायाधिकरणप्रदोषपरितापनप्राणातिपाताः दर्शनस्पगेनप्रत्ययसमन्तानुपातानाभोगाः स्वहस्तनिसर्गविदारणानयनानवकाङ्क्षा प्रारम्भपरिग्रहमायामिथ्यादर्शनाप्रत्याख्यान क्रिया इति ॥
* Dअप्रत्ययावान।