________________
अथ षष्ठोऽध्यायः ।
10
अत्राह । उक्ता जीवाजीवाः । श्रथास्त्रवः क इत्यास्त्रव
प्रसिद्ध्यर्थमिदं प्रक्रम्यते*
कायवाङ्मनःकर्म योगः ॥ १ ॥
कायिकं कर्म वाचिकं कर्म मानसं कर्म इत्येष त्रिविधो 5 योगो भवति । स एकशो द्विविधः । शुभाशुभश्च । तत्राशुभ हिंसास्तेयाब्रह्मादौनि कायिकः । सावद्यानृतपरुषपिशुनादीनि वाचिकः । श्रभिध्या' व्यापादे यसूयादीनि मानसः ॥ अतो विपरीतः शुभ इति ॥
स श्रस्रवः ॥ २ ॥
स एष त्रिविधो ऽपि योग श्रस्रवसंज्ञो भवति । शुभा - शुभयोः कर्मणोरास्रवणदास्रवः सरःसलिलावाहिनिर्वाहि
स्रोतोवत् ॥
शुभः पुण्यस्य ॥ ३॥
शुभो योगः पुण्यस्यास्रवो भवति ॥
* DS प्रक्रियते । + C मानसिकः । + D विपरीतं ।
१ अभिध्या = coveting another's property.
२ व्यापाद = malice.
३ निर्वाह्निन् = discharging.
8 B द्विविधो ।