________________
[अ० ४ । सू० २४ ।
चतुर्थोऽध्यायः ।
१११
पौतपद्मशक्कलेश्या भवन्ति यथासङ्ख्यम् । द्वयोः पौतलेण्याः सौधर्मेशानयोः । त्रिषु पद्मलेण्याः सनत्कुमारमाहेन्द्रब्रह्मालोकेषु । शेषेषु लान्तकादिवासर्वार्थसिद्धाच्छुक्ललेश्याः । उपर्युपरि तु विशुद्धतरेत्युक्तम् ॥ 5 अत्राह। उक्तं भवता द्विविधा वैमानिका देवाः कल्योपपन्नाः कल्पातीताश्चेति । तत्। के कल्या इति अत्रोच्यते ॥ .
प्राग्वेयकेभ्यः कल्याः॥२४॥ प्राग्गैवेयकेन्यः कल्पा भवन्ति सौधर्मादय पारणाच्युतपर्यन्ता इत्यर्थः । अतो ऽन्ये कल्पातीताः ॥ 10. अत्राह। किं देवाः सर्व एव सम्यग्दृष्टयो यद्भगवतां
परमर्षीणमहतां जन्मादिषु प्रमुदिता भवन्ति इति। अत्रोच्यते। न सर्वे सम्यग्दृष्टयः किं तु सम्यग्दृष्टयः मद्धर्मबहुमानादेव तत्र प्रमुदिता भवन्त्यभिगच्छन्ति च । मिथ्यादृष्टयो ऽपि च
+ C नत ।
* KD पौनलेश्याः सौधर्मेशानयोः।
+ B सद्धर्मबहुमाना देवा।
१ मलयगिरि in his commentary on वृहत्संग्रहणौ by जिनभद्रगणिक्षमाश्रमण says: -अाह च तत्त्वार्थटीकाकारो हरिभद्रसूरिः। भावले श्याः घडपौष्यन्ते देवानां प्रतिनिकायमिति ॥ The same author in his commentary on प्रज्ञापनासूत्र (Calcutta Edition, p. 365 A), says:यथा च प्रमाणबाधितत्वं तथा तत्त्वार्थटौकायां भावितमिति ततो ऽवधार्यः । From this it is clear that मलयगिरि also composed a commentary on तत्त्वार्थ ।