________________
तत्त्वाधिगमसूत्रम् । [अ०४ । ०२५, २६ ।]
लोकचित्तानुरोधादिन्द्रानुवृत्त्या परस्परदर्शनात् पूर्वानुचरितमिति च प्रमोदं भजन्ते ऽभिगच्छन्ति च । लोकान्तिकास्तु सर्व एव विशुद्धभावाः सद्धर्मबहुमानात्संसारदुःखार्त्तानां च सत्त्वानामनुकम्पया भगवतां परमर्षीणामर्हतां जन्मादिषु विशेषतः प्रमुदिता भवन्ति । श्रभिनिःक्रमणाय * च कृतसंकल्पाभगवतो ऽभिगम्य प्रहृष्टमनसः स्तुवन्ति सभाजयन्ति चेति ॥ श्रत्राह । के पुनले कान्तिकाः कतिविधा वेति । अत्रोच्यते
११२
ब्रह्मलोकालया लोकान्तिकाः ॥ २५ ॥
ब्रह्मलोकालया एव लोकान्तिका भवन्ति नान्यकल्पेषु नापि परतः । ब्रह्मलोकं परिवृत्त्याष्टासु दिचु श्रष्टविकल्पा 10 भवन्ति । तद्यथा ।
सारस्वतादित्यवद्भ्यरुणगर्दतोय तुषिताव्याबाधमरुतः ? (अरिष्टाश्च ) ॥ २६ ॥
एते सारखतादयो ऽष्टविधा देवा ब्रह्मलोकस्य पूर्वोत्तरादिषु दिचु प्रदक्षिणं भवन्ति यथासङ्ख्यम् । तद्यथा । पूर्वोत्तरस्यां 15 दिशि सारस्वताः पूर्वस्यामादित्या इत्येवं शेषाः ॥
* D अभिनिःक्रमणे ।
+ D
‡ D here and elsewhere लौकान्तिकाः ।
$ C • ताव्याबाधारिष्टमयतः ।