________________
११०
तत्त्वार्थाधिगमसूत्रम् ।
[अ० ४ । सू० २३ ।
ग्रैवेयकेभ्य उपपातः । अन्यस्य सम्यग्दृष्टेः संयतस्य भजनौयं पासर्वार्थसिद्धात् । ब्रह्मलोकादूर्ध्वमासर्वार्थसिद्धाच्चतुर्दशपूर्वधरापामिति ॥ अनुभावो विमानानां सिद्धि क्षेत्रस्य चाकाशे निरालम्बस्थिती लोकस्थितिरेव हेतुः । लोकस्थिति कानुभावो लोकखभावो जगद्धर्मो ऽनादिपरिणामसन्ततिरित्यर्थः। 5 सर्वे च देवेन्द्रा ग्रैवेयादिषु च देवा भगवतां परमर्षोणमर्हतां जन्माभिषेकनिःक्रमणज्ञानोत्पत्तिमहासमवसरणनिर्वाणकालेवासोनाः शयिताः स्थिता वा सिहसैवासनशयनस्थानाश्रयैः प्रचलन्ति । शुभकर्मफलोदयालोकानुभावत एव वा । ततो जनितोपयोगास्तां भगवतामनन्यमदृौं तीर्थकरनामकर्मोद्भवां 10 धर्मविभूतिमवधिनालोच्य? संजातसंवेगाः सद्धर्मबहुमानाकचिदागत्य भगवत्पादमूलं स्तुतिवन्दनोपासनहितश्रवणैरात्मानुग्रहमाप्नुवन्ति । केचिदपि तत्रस्था एव प्रत्युपस्थापनाञ्जलि**प्रणिपातनमस्कारोपहारैः पिरममंविनाः सद्धर्मानुरागोत्फुल्लनयनवदनाः समभ्यर्चयन्ति ॥ . अत्राह । त्रयाणां देवनिकायानां लेश्या नियमो ऽभिहितः। अथ वैमानिकानां केषां का लेश्या इति । अत्रोच्यते ॥
पौतपद्मशुक्लेश्या विविशेषेषु ॥ २३ ॥ उपर्युपरि वैमानिकाः मौधर्मादिषु इयोस्त्रिषु शेषेषु च
15
* B C सिद्धक्षेत्र त्य। + D अनादिपरिणामः सन्ततिरित्यर्थः। * C सहस व । SC चालोक्य । || C सहमबहुमानाः।
D अवाप्नुवन्ति । ** D प्रर स्यानाञ्जलि।
tt Badds परम ।