________________
[अ० ४ । सू० ७-८]
चतुर्थोऽध्यायः ।
६५
5
सनत्कुमारे सनत्कुमार इति । एवं सर्वकल्येषु स्वकल्पाहाः । परतस्विन्द्रादयो दश विशेषा न सन्ति। सर्व एव स्वतन्त्रा इति ॥
पौतान्तलेश्याः ॥७॥ पूर्वयोनिकाययोर्देवानां पीतान्ताश्चतस्रो लेश्या भवन्ति ॥ ___कायप्रवीचारा आ ऐशानात् ॥८॥
भवनवास्थादयो देवा श्रा ऐशानात्कायप्रवीचारा भवन्ति । कायेन प्रवीचार एषामिति कायप्रवीचाराः । प्रवीचारो नाम मैथुनविषयोपसेवनम् । ते हि संक्लिष्टकर्माणो मनुष्यवन्मैथुन
सुखमनु प्रलीयमानास्तोत्रानुशयाः कायसंक्लेशजं सर्वाङ्गीणं स्पर्श10 सुखमवाप्य प्रौतिमुपलभन्त इति ॥ शेषाः स्पर्शरूपशब्दमनःप्रवौचारा द्वयोईयोः ॥ ६ ॥
ऐशानादूचं शेषाः कन्योपपन्ना देवा द्वयोर्दयोः कल्पयोः स्पर्शरूपशब्दमनःप्रवीचारा भवन्ति यथासङ्ख्यम् । तद्यथा ।
सनत्कुमारमाहेन्द्रयोर्दैवान्मैथुनसुखप्रेमूनुत्पन्नास्था विदित्वा देव्य IF उपतिष्ठन्ते । ताः स्पृष्ट्वैव च ते प्रौतिमुपलभन्ते विनिवृत्तास्थाश्च
भवन्ति ॥ तथा ब्रह्मलोकलान्तकयोर्दैवानेवंभृतोत्पन्नास्थाविदित्वा देव्यो दिव्यानि स्वभावभास्वराणि सर्वाङ्गमनोहराणि श्टङ्गारोदाराभिजाताकारविलासान्युज्ज्वलचारवेषाभरणानि स्वानि
* C खकल्पांकाकाः।
+ D ईशनात् ।
+ D एवंभूतानेवोत्पत्रास्थान।