________________
तत्त्वााधिगमसूत्रम्। [अ० ४ । मू० १० ।]
रूपाणि दर्शयन्ति । तानि दृष्ट्वैव ते प्रौतिमुपलभन्ते निवृत्तास्थाश्च भवन्ति ॥ तथा महाशुक्रसहस्रारयोर्दैवानुत्पन्नप्रवीचारास्थान्विदित्वा देव्यः श्रुतिविषयसुखानत्यन्तमनोहराञ् श्टङ्गारोदाराभिजातविलासाभिलाप च्छेदातलतालाभरणरवमिश्रान्हसितकथितगीतशब्दानुदौरयन्ति । ताश्रुत्वैव ते प्रीतिमुपलभन्ते । निवृत्तास्थाश्च भवन्ति ॥ श्रानतप्राणतारणाच्युतकल्पवासिनो देवाः प्रवीचारायोत्पन्नास्था देवौः संकल्पयन्ति संकल्पमात्रेणैव ते परां प्रीतिमुपलभन्ते विनिवृत्तास्थाश्च भवन्ति ॥ एभिश्च प्रवीचारैः परतः परतः प्रीतिप्रकर्षविशेषो ऽनुपमगुणो भवति प्रवौचारिणामल्पसंक्लेशत्वात् । स्थितिप्रभावादिभिरधिका इति 10 वक्ष्यते [IV. 21 1] ॥
परे ऽप्रवौचाराः ॥ १० ॥ कल्पोपपन्नेभ्यः परे देवा अप्रवौचारा भवन्ति । अल्पसंक्लेशत्वात् स्वस्थाः भौतीभूताः । पञ्चविधप्रवीचारोद्भवादपि प्रौतिविशेषादपरिमितगुणप्रौतिप्रकर्षाः परमसुखहप्ता एव भवन्ति ॥ 15 __ अत्राह । उक्तं भवता देवाश्चतुर्निकाया दशाष्टपञ्चद्दादशविकल्पा इत्युक्ते निकायाः के के चैषां विकल्या इति । अत्रीयते । चत्वारो देवनिकायाः । तद्यथा। भवनवासिनो व्यन्तरा ज्योतिष्का वैमानिका इति ॥ तत्र
C शौसभूताः।
* K अभिलाष । न छेक? $ D इति तत्के निकायाः के चैषां ।।