________________
परिमाणं च पृथक्त्वं तथा परत्वा-ऽपरत्वे च ॥ २ ॥ बुद्धिः सुख-दुःखे-च्छा धर्मा-ऽधौ प्रयत्न-संस्कारौ । द्वेषः स्नेह-गुरुत्वे द्रवत्व-वेगौ गुणा एते ॥६३ ॥ उत्क्षेपा-ऽवक्षेपौ आकुश्चनकं प्रसारणं गमनम् । पञ्चविधं कैमैतत् परा-ऽपरे द्वे तु सामान्ये ॥ ६४ ॥ तत्र परं सत्ताख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु । निश्चयतो नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिष्टः ॥६५॥ य इहाऽयुतसिद्धानामाधारा-ऽऽधेयभूतभावानाम् । संबन्ध इह प्रत्ययहेतुः प्रोक्तः स समायः ।। ६६ ॥ प्रमाणं च द्विधाऽमीषां प्रत्यक्षं लैङ्गिक तथा । वैशेषिकमतस्यैवं संक्षेपः परिकीर्तितः ॥ ६७ ॥ जैमिनीय(मीमांसा)दर्शन
जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि यस्य मानं वचो भवेत् ॥ ६८ ॥ तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः ॥ ६९ ॥ अत एव पुराकार्यो वेदपाठः प्रयत्नतः ।। ततो धर्मस्य जिज्ञासा कर्तव्या धर्मसाधनी ॥ ७० ॥ नोदनालक्षणो धर्मों नोदना तु क्रियां प्रति । प्रवर्तकं वचः प्राहुः "स्वः कामोऽग्निं यजेत्" यथा॥७१॥