________________
(E)
प्रत्यक्षमनुमानं च शाब्दं चोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥ ७२ ॥ तत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां संति । आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ॥ ७३ ॥ शाब्द शाश्वत वेदोत्थमुपमानं परिकीर्तितम् । प्रसिद्धार्थस्य साधर्म्यादिप्रसिद्धस्य साधनम् ॥ ७४ ॥ दृष्टार्थानुपपच्या तु कस्याऽप्यर्थस्य कल्पना | क्रियते यद्बलेनाsसावर्थापत्तिरुदाहृता ॥ ७५ ॥ प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्ताऽवबोधार्थं तत्राऽभावप्रमाणता ।। ७६ ।। जैमिनीयमतस्याऽपि संक्षेपोऽयं निवेदितः । एवमास्तिकवादानां कृतं संक्षेपकीर्तनम् ॥ ७७ ॥ नैयायिक मतादन्ये भेदं वैशेषिकैः सह ।
न मन्यन्ते मते तेषां पञ्चैवाऽऽस्तिकवादिनः ॥ ७८ ॥ षष्ठदर्शनसंख्या तु पूर्यते तन्मते किल ।
लोकायत मतक्षेपात् कथ्यते तेन तन्मतम् ॥ ७९ ॥
लोकायतदर्शन
•
लोकायता वदन्त्येवं नास्ति देवो न निर्वृतिः । धर्माधर्मौ न विद्येते न फलं पुण्य-पापयोः ॥ ८० ॥ एतावानेव लोकोऽयं यावानिन्द्रियगोचरः ।