________________
--(७, एतानि तन्त्र तत्वानि यः श्रद्धत्ते स्थिराशयः । सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥५३॥ तथाभव्यत्वपाकेन यस्यैतत् त्रितयं भवेत् । सम्यग्ज्ञान-क्रियायोगात् जायते मोक्षभाजनम् ॥५४॥ प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ॥ ५५॥ अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षामितरत् ज्ञेयं परोक्षं ग्रहणेक्षया ।। ५६ ॥ येनोत्पाद-व्यय-ध्रौव्ययुक्तं यत् सत् तदिष्यते । अनन्तधर्मकं वस्तु तेनोक्तं मानगोचरः ॥ ५७॥ जैनदर्शनसंक्षेप इत्येष कथितोऽनघः । पूर्वापरविघातस्तु यत्र क्वापि न विद्यते ॥५८ ॥ वैशेषिकदर्शन
देवताविषये भेदो नास्ति नैयायिकैः समम् । वैशेषिकाणां तत्वे तु विद्यतेऽसौ निदर्यते ॥ ५९॥ द्रव्यं गुणस्तथा कर्म सामॊन्यं च चतुर्थकम् । विशेषे-समवायौ च तत्वषट्कं हि तन्मते ॥६॥ तत्र द्रव्यं नवधा भू-जल-तेजो-ऽनिला-ऽन्तरिक्षाणि । काल-दिग्-आत्म मनांसि च गुणः पुनः पञ्चविंशतिधा॥६॥ स्पर्श-रस-रूप-गन्धाः शब्दः संख्या विभाग-संयोगा।