________________
मानत्रितयं च भवेत् प्रत्यक्षं लैङ्गिक शाब्दम् ॥४३॥
एवं सांख्यमतस्यापि समासः कथितोऽधुना । जैनदर्शन
जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ॥४४॥ जिनेन्द्रो देवता तत्र राग-द्वेषविवर्जितः । हतमोहमहामल्लः केवलज्ञानदर्शनः ॥ ४५ ॥ . सुराऽसुरेन्द्रसंपूज्य सद्भतार्थोपदेशकः । कृत्स्नकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ॥ ४६ ॥ जीवाऽजीवी तथा पुण्यं पामाश्रव-संवरौ। बन्धश्च निर्जरा-मोक्षी नव तत्त्वानि तन्मते ॥ १७ ॥ तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान् । . शुभा-Sशुभकर्मकर्ता भोक्ता कर्मफलस्य च ॥४८॥ चैतन्यलक्षणो जीवः यश्चैतद्विपरीतवान् । अजीवः स समाख्यातः पुण्यं सत्कर्मपुद्गलाः ॥४९॥(युग्मम्) पापं च तद्विपरीतं तु मिथ्यात्वाद्याश्च हेतवः । यस्तैर्बन्धः स विज्ञेय आश्रवो जिनशासने ॥ ५० ॥ संवरस्तनिरोधस्तु बन्धो जीवस्य कर्मणः। अन्योन्यानुगमात् कर्मसंवन्धो यो द्वयोरपि ॥५१॥ बद्धस्य कर्मणः शाटो यस्तु सा निर्जरी मता। आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥५२॥