________________
-(५॥
. सांख्या निरीश्वराः केचित् केचिद् ईश्वरदेवताः। सर्वेषामपि तेषां स्यात् तत्चानां पश्चविंशतिः ॥ ३४ ॥ सत्त्वं रजस्तमति ज्ञेयं तावद् गुणत्रयम् । प्रसाद-ताप-दैन्यादिकार्यलिङ्गं क्रमेण तत् ॥ ३५ ॥ एतेषां या समावस्था सा प्रकृतिः किलोच्यते । प्रधाना-ऽव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका ॥३६॥ ततः संजायते बुद्धिर्महानिति यकोच्यते । अहंकारः ततोऽपि स्यात् तस्मात् षोडशको गणः ॥३७॥ सपैर्शनं रसेनं घ्राणं चक्षुः श्रात्रं च पश्चमम् । . पश्च बुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च ॥ ३८॥ पीयू-पंस्थ-वैच:-पाणि-पादौख्यानि मनस्तथा । अन्यानि पश्च रूपादितन्मात्राणि इति षोडश ।। [युग्मम् । रूपात् "तेजो रसाँदापो गन्धाद् भूमिः स्वराद् नमः। स्पर्शाद् वायुः तथैवं च पश्चभ्यो भूतपञ्चकम् ।। ४० ॥ एवं चतुर्विंशतितत्त्वरूपं निवेदितं सांख्यमते प्रधानम् । अन्यस्त्वकर्ता विगुणस्तु भोक्ता तत्वं पुमान्
नित्यचिद् अभ्युपेतः ॥ ४१॥ पञ्चविंशतितत्वानि संख्ययैव भवन्ति च । प्रधान-नरयोश्चात्र वृत्तिः पशु-अन्धयोरिव ॥ ४२ ॥ प्रकृति-वियोगो मोक्षः पुरुषस्यैवाऽऽन्तरज्ञानात् ।