________________
प्रमाणं च प्रेमेयं च संशयश्च प्रयोजनम् ॥१४॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तर्क-निर्णयौ । चांदो जल्पो वितण्डा च हेत्वाभासाश्छलानि च ॥१५॥ जीतयो निग्रहस्थानान्येषामेवं निरूपणा । अर्थोपलब्धिहेतुः स्यात् प्रमाणं तत् चतुर्विधम् ॥ १६ ॥ प्रत्यक्षमनुमान चोपमान शाब्दिकं तथा । तत्रेन्द्रियाऽर्थसंपर्कोत्पन्नमव्यभिचारि च ॥१७॥ व्यवसायात्मकं ज्ञानं व्यपदेशविवर्जितम् ।। प्रत्यक्षमनुमानं तु तत्पूर्व त्रिविधं भवेत् ॥१८॥ (युग्मम्) पूर्ववत् शेषवत् चैव दृष्टं सामान्यतस्तथा । तत्राऽयं कारणात् कार्यानुमानमिह गीयते ॥ १९॥ रोलम्ब-गवल-व्याल-तमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नवंप्रायाः पयोमुचः ॥ २० ॥ कार्यात् कारणानुमावं यच्च तत् शेषवद् मतम् । तथाविधनदीपूरात् मेघो वृष्टो यथोपरि ॥ २१ ॥ यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्रामियथा सूर्येऽपि सा तथा ॥ २२॥ प्रसिद्धवस्तुसाधादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गौर्गवयस्तथा ॥२३॥ बाब्दमायोपदेशस्तु मानमेवं चतुर्विधम् ।