________________
( २ )
दुःखं संसारिणः स्कन्धाः, ते च पश्च प्रकीर्तिताः । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥५॥ समुदेति यतो लोके रागादिनां गणोऽखिलः । आत्मा-ऽऽत्मीयस्वभावाख्यः समुदयः स संमतः ॥६॥ क्षणिकाः सर्वसंस्कारा इत्येवं वासना तु या। स मार्ग इति विज्ञेयः निरोधो मोक्ष उच्यते ॥ ७ ॥ पश्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशायतनानि च ।। ८॥ प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने। प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः ॥९॥ प्रत्यक्षं कल्पनापोढमभ्रान्तं तत्र बुध्यताम् । त्रिरूपाल्लिङ्गतो लिङ्गिज्ञानं त्वनुमानसंज्ञितम् ॥ १० ॥ रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता । विपक्षे नास्तिता हेतोरेवं त्रीणि विभाव्यताम् ॥ ११ ॥ बौद्धराद्धान्तवाच्यस्य संक्षेपोऽयं निवेदितः । नैयायिकदर्शन
नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥ १२॥ अक्षपादमते देवः सृष्टि-संहारकृत् शिवः । विभुनि यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ॥१३॥ तत्त्वानि षोडशाऽमुत्र प्रमाणादीनि तद्यथा।