________________
भीवर्द्धमान-सत्य-नीति-हर्षमुरि जैनग्रंथमाला पुष्प ८
ॐ अहम् नमः। जिनागमतत्त्वविशारद-चन्द्रकुलतपागच्छसंविग्नशाखाग्रणी. सुविहित-आचार्य श्रीविजयहर्षनरीश्वर
पादपद्मेभ्यो नमः ॥ याकिनीमहत्तरासू नु-भगवान्-हरिभद्रसूरीश्वरविरचित
षड्दर्शनसमुच्चय (मूल) उपक्रमसदर्शनं जिनं नत्वा वीरं स्याद्वाददेशकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ॥१॥ दर्शनानि षडेवात्र मूलभेदव्यपेक्षया ।
देवता-तत्त्वमेदेन ज्ञातव्यानि मनीषिभिः ॥२॥ दर्शनानां नामबौद्धं नैयायिकं सांख्यं जैनं वैशेषिकं तथा।
जैमिनीयं च नामानि दर्शनानाममून्यहो ॥३॥ बौद्ध दर्शनतत्र बौद्धमते तावद् देवता सुगतः किल । . चतुर्णामार्यसत्यानां दुःखादिनां प्ररूपकः ॥ ४॥