________________
सभाष्यतस्वार्थाधिगमसूत्रेषु ५४
अनादिसम्बन्धे च ॥ ४२ ॥ ताभ्यां तैजसकार्मणाभ्यामनादिसम्बन्धो जीवस्येत्यनादिसम्बन्ध इति ॥ ४२ ॥
सर्वस्य ॥ ४३ ॥ सर्वस्य चैते तैजसकार्मणे शरीरे संसारिणो जीवस्य भवतः। एके त्वाचार्या नयवादापेक्षं व्याचक्षते ।कार्मणमेवैकमनादिसम्बन्धम् । तेनैवैकेन जीवस्यानादिः सम्बन्धो भवतीति । तैजसं तु लब्ध्यपेक्षं भवति । सा च तैजसलब्धिर्न सर्वस्य कस्यचिदेव भवति । क्रोधप्रसादनिमित्तौ शापानुग्रही प्रति तेजोनिसर्गशीतरश्मिनिसर्गकरं तथा भ्राजिष्णुप्रभासमुदयच्छायानिर्वर्तकं तैजसं शरीरेषु माणिज्वलनज्योतिष्कविमानवदिति ॥ ४३ ॥ तदादीनि भाज्यानि युगपदेकस्याचतुर्थ्यः॥ ४४ ॥
ते आदिनी एषामिति तदादीनि । तैजसकामणे यावत्संसार
१ तुशब्दोऽवधारकः । तैजसं लब्ध्यपेक्षमेव भवति सत्तामासादयति । सा च तैजसलब्धिर्विशिष्टतपोऽनुष्ठानादिभिः साधनैः कस्यचिदेव भवति न सर्वस्य जन्तोस्तत्साधनकलापविमुखस्य । स च तद्योग्यसाधनसमासादिततेजोलब्धिस्तेजोनिसर्गमातनोति ।
२ क्रोधनिमित्तशापप्रदानाभिमुख उष्णतेजोनिसर्ग करोति । प्रसादनिमित्तानुग्रहाभिमुखः शीतरश्मिनिसर्गकरो भवति । शीता रश्मयो यस्य निसृज्यमाने तेजोविशेषस्य स शीतश्मिः शीतरश्मिश्चासौ निसर्गश्च शीतरश्मिनिसर्गस्तत्करणशीलं शीतरश्मिनिसर्गकरं तैजसम् ।
३ भ्राजनशीलो भ्राजिष्णुः प्रभाणां समुदयस्तस्य छाया आमा भ्राजिष्णुप्रभासमुदयछाया । तस्याश्छायानिर्वर्तकमुत्पादकं तैजसं शरीरेष्वौदारिकादिकेषु केषुचित् । - ४ यथा हि मणयः स्फटिकाङ्कवैडूर्यादयो भ्राजिष्णुछायाविमलपुद्गलारब्धत्वाज्ज्वलनो वा निरस्तप्रत्यासन्नतिमिरव्रातः प्रद्योतते स्वतेजसा ज्योतिष्कदेवानां वा चन्द्रादित्यादीनां विमानान्यतिभास्वराणि निर्मलद्रव्यारब्धत्वात्तथा तैजसशरीरापेक्षमौदारिकादिषु शरीरेषु केषुचिदेव स्फुरन्मजाजालमुपलभ्यते नं सर्वेषु । अन्यथा तदभावात् ।