SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ५५ द्वितीयोऽध्यायः । भाविनी आदिं कृत्वा शेषाणि युगपदेकस्य जीवस्य भाज्यान्याचतुर्थ्यः । तद्यथा । तैजसकार्मणे वा स्याताम् । तैजसकार्मणौदारिका वा स्युः । तैजसकार्मणवैक्रियाणि वा स्युः । तैजसकार्मणौदारिकवैक्रियाणि वा स्युः। तैजसकार्मणौदारिकाहारकाणि वा स्युः।कार्मणमेव वा स्यात् । कार्मणौदारिके वा स्याताम् । कार्मणवैक्रिये वा स्याताम् । कार्मणौदारिकवैक्रियाणि वा स्युः। कार्मणौदारिकाहारकाणि वा स्युः । कार्मणतैजसौदारिकवैक्रियाणि वा स्युः । कार्मणतैजसौदारिकाहारकाणि वा स्युः । न तु कदाचिद्युगपत्पश्च भवन्ति । नापि वैक्रियाहारके युगपद्भवतः स्वामिविशेषादिति वक्ष्यते ॥ ४४ ॥ निरुपभोगमन्त्यम् ।। ४५॥ अन्त्यमिति सूत्रक्रमप्रामाण्यात्कार्मणमाह । तन्निरुपभोगम् । न सुखदुःखे तेनोपभुज्यते न तेन कर्म बध्यते न वेद्यते नापि निर्जीर्यत इत्यर्थः । शेषाणि तु सोपभोगानि । यस्मात्सुखदुःखे तैरुपभुज्येते कर्म बध्यते वेद्यते निर्जीयते च तस्मात्सोपभोगानीति ॥४५॥ अत्राह । एषां पञ्चानामपि शरीराणां सम्मुर्छनादिषु त्रिषु जन्मसु किं क जायत इति । अत्रोच्यते गर्भसम्मूर्छनजमाद्यम् ॥ ४६ ॥ आद्यमिति सूत्रक्रमप्रामाण्यादौदारिकमाह । तद्गर्भे सम्मूर्छने वा जायते ॥ ४६॥ वैक्रियमौपपातिकम् ॥ ४७ ॥ वैक्रियशरीरमौपपातिकं भवति । नारकाणां देवानां चेति ॥४७॥ १ अ. २ सू. ४७,४९. २ अनुभूयमानमेवेह निर्जीयते । निरसतामापद्यमानं परिशय्यात्मप्रदेशेभ्यः पादलेशनामुक्तं रसकुसुम्भकं निजीर्णमुच्यते । - -
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy