________________
द्वितीयोऽध्यायः। उभयावधारणं चात्र भवति । जरायुजादीनामेव गर्भः । गर्भ एव जरायुजादीनाम् । नारकदेवानामेवोपपातः । उपपात एव नारकदेवानाम् । शेषाणामेव सम्पूर्छनम् । सम्मूर्छनमेव शेषाणाम् ॥ ३६॥ औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि ॥ ३७ ॥
औदारिकं वैक्रिय आहारकं तैजसं कार्मणमित्येतानि पश्च शरीराणि संसारिणां जीवानां भवन्ति ॥ ३७॥
तेषां परं परं सूक्ष्मम् ॥ ३८ ॥ तेषामौदारिकादिशरीराणां परं परं सूक्ष्म वेदितव्यम् । तद्यथा। औदारिकाद्वैक्रियं सूक्ष्मम् । वैक्रियादाहारकम् । आहारकातैजसम् । तैजसात्कार्मणमिति ॥ ३८ ॥ प्रदेशतोऽसङ्ख्येयगुणं प्राक् तैजसात् ॥ ३९॥
तेषां शरीराणां परं परमेव प्रदेशतोऽसङ्ख्यगुणं भवति प्राक् तैजसात् । औदारिकशरीरप्रदेशेभ्यो वैक्रियशरीरप्रदेशा असङ्खयेयगुणाः । वैक्रियशरीरप्रदेशेभ्य आहारकशरीरप्रदेशा असङ्खोयगुणा इति ॥३९॥
अनन्तगुणे परे ॥ ४०॥ परे द्वे शरीरे तैजसकार्मणे पूर्वतः पूर्वतः प्रदेशार्थतयानन्तगुणे भवतः । आहारकात्तैजसं प्रदेशतोऽनन्तगुणम् । तैजसात्कार्मणमनन्तगुणमिति ॥ ४०॥
अप्रतिघाते ॥४१॥ एते द्वे शरीरे तैजसकार्मणे अन्यत्र लोकान्तात्सर्वत्रापतिघाते भवतः॥४१॥
------ Niru Pur१ अ. २ सू. ४९