SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सभाष्यतस्वार्थाधिगमसूत्रेषु . ५२ संवृत्तविद्वत्ता इति । तत्र देवनारकानामचित्ता योनिः । गर्भजन्मनां मिश्रा । त्रिविधान्येषाम् । गर्भजन्मनां देवानां च शीतोष्णा । तैजःकायस्योष्णा । त्रिविधान्येषाम् । नारकैकेन्द्रियदेवानां संवृत्ता। गर्भजन्मनां मिश्रा विवृत्तान्येषामिति ॥ ३३ ॥ जराय्वण्डपोतजानां गर्भः॥ ३४ ॥ जरायुजानां मनुष्य-गो-महिषाजाविकाव-खरोष्ट्र-मृग-चमरवराह-गवय-सिंह-व्याघ्रर्स द्वीपि-श्व-शृगाल-मार्जारादीनाम् । अर्द्धजानां सर्प-गोधा-कृकलाश-गृहकोकिलिकामत्स्य-कूर्म-नक्र-शिशुमारांदीनां पक्षिणां च लोमपक्षाणां हंस-चाप-शुक-गृध्र-श्येन-पारावत-काकमयूर-मगु-बक-बलाकादीनाम् । पोतर्जानां शल्लक-हस्ति-श्वाविल्लापक-शश-शारिका-नकुल-मूषिकादीनां पक्षिणां च चर्मपक्षाणां जलूकावल्गुलि-भारण्ड-पक्षिविरालादीनां गर्भो जन्मेति ॥ ३४॥ नारकदेवानामुपपातः ॥ ३५ ॥ ..नारकाणां देवानां चोपपातो जन्मेति ॥ ३५॥ शेषाणां सम्मूर्छनम् ॥ ३६॥ जराय्वण्डपोतजनारकदेवेभ्यः शेषाणां सम्पूर्छनं जन्म । . १ बाहिदृश्यमप्यदृश्यमध्यं जन्तूत्पत्तिस्थानं संवृत्तविवृत्तालक्षणम् । २ जालवत् प्राणिपरिवरणरूपत्वे सति विततमांसशोणितरूपत्वं जरायोर्लक्षणम् । तत्र जाता जरायुजाः। ३ चमरो नामारण्यो गौः । ४ ऋक्षः-भल्लूकः । ५ द्वीपी-व्याघ्रविशेषः । ६ नखत्वक्सदृशोपात्तकाठिन्ये सति शुक्रशोणितपरिवरणरूपं यन्मण्डलं तद्रूपत्वमण्डस्य । तत्र जाता अण्डजाः । . . ७ शिशुमारः-मत्स्यविशेषः । ८ पोता एव जाताः पोतजाः शुद्धप्रसवा न जराय्वादिना वेष्टिताः ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy