SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सभाष्यतस्त्वार्थाधिगमसूत्रेषु एकसमयोऽविग्रहः ॥ ३० ॥ एकसमयोऽविग्रहो भवति । अविग्रहां गतिरालोकान्तादप्येकेन समयेन भवति । एकर्विग्रहा द्वाभ्याम् । द्विविग्रहा त्रिभिः । त्रिविग्रहा चतुर्भिरिति । अत्र भङ्गमरूपणा कार्येति ॥ ३० ॥ एकं द्वौ वानाहारकाः ॥ ३१॥ विग्रहगतिसमापन्नो जीव एकं वा समयं द्वौ वानाहोरको भवति । शेषं कालमनुसमयमाहारयति । कथमेकं द्वौ बानाहारको न बहूनीत्यत्र भङ्गप्ररूपणा कार्या ॥ ३१ ॥ ५० अत्राह । एवमिदानीं भवक्षये जीवोऽविग्रहया विग्रहवत्या वा गत्या गतः कथं पुनर्जायत इति । अत्रोच्यते । उपपातक्षेत्रं स्वकर्मवशात्माप्तः शरीरार्थ पुद्गलग्रहणं करोति । सकषायत्वाज्जीवः कर्मणो योग्या - १ भवान्तरालवर्तितायां जन्तोर्गतिपरिणतस्यैकेन समयेनातिक्रान्तेन वा गतिजयत इति । २ ऋज्वी गतिः क्षेत्रमंगीकृत्य कदाचिदव्यवहितश्रेप्यन्तरमात्र एव विरमति जन्तोत्पादवशात् । कदाचिच्छेणिद्वयमतिक्रम्योपरमत्याल | कान्ताद्वा सिद्धयमानस्य भवतीत्येकसमयपरिमाणमभेदवर्ति, सर्वत्र गतिविशेषात् । ^ ३ एको विग्रहो यस्यां सैकविग्रहा पूर्वापरसमयावधिकत्वात् विग्रहस्य सामर्थ्यान्निश्चीयते द्वाभ्यां समयाभ्यां निष्पाद्यत एक विग्रह इति । एवं द्वित्रिविग्रहयोरपि वाच्यम् । ४ अत्रैवंविधे विचारप्रस्तावे भङ्गा विकल्पास्तेषां प्ररूपणा विभावना कार्या । चै कार्या । नारकाः कदाचित्सर्व एव विग्रहगतयो भवन्ति । अथवा अविग्रहगतयश्च विग्रहगतिश्चैकः स्यात् । अथवा अविग्रहगतयो विग्रहगतयश्चेति । ५ औदारिकादिपुद्गलानामादानरूपत्वमाहारस्य लक्षणम्। तादृशाद्दाराभावरूपत्वमनाहारस्य लक्षणम् । तद्वांश्वानाहारकः । विग्रहगतिसमापन्नो जीवः सामर्थ्याद्विग्रहापेक्षस्वात् द्विविग्रहां त्रिविग्रहां वानुप्राप्तो गृह्यते तत्र द्विविग्रहायामेकं समयं मध्यमं त्रिविग्रहायां द्वौ समयावनाहारको मध्यमौ भवति ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy