________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
१८ संज्ञिनो विवक्षिताः। अन्यथा ह्याहारभयमैथुनपरिग्रहसंज्ञाभिः सर्व एव जीवाः संजिन इति ॥ २५ ॥
विग्रहगतौ कर्मयोगः ॥ २६॥ विग्रहगतिसमापनस्य जीवस्य कर्मकृत एव योगो भवति । कर्मशरीरयोग इत्यर्थः । अन्यत्र तु यथोक्तः कायवाङ्मनोयोग इत्यर्थः ॥२६॥
अनुश्रेणि गतिः॥ २७ ॥ सर्वा गतिर्जीवानां पुद्गलानां चाकाशप्रदेशऑनुश्रीणि भवति विश्रेणिर्न भवतीति गतिनियम इति ॥ २७ ॥
अविग्रहाँ जीवस्य ॥ २८ ॥ सिध्यमानगतिर्जीवस्य नियतमाविग्रहा भवतीति ।
१ आहारसंज्ञा-आहाराभिलाषरूपः क्षुद्वेदनीयप्रभवः आत्मपरिणामविशेषः भयसंज्ञा-हीनसत्त्वतया मतिभयवार्ताश्रवणभीषणदर्शनादिजनिता बुद्धिस्तया तदर्थो पयोगेन इहलोकादिभयलक्षणार्थपालोचनेनेति । मैथुनसंज्ञा-मैथुनं संज्ञायतेऽनयोति मैथुनसंज्ञा पुंवेदोदयान्मैथुनाय त्यङ्गालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रिया । परिग्रहसंज्ञा-तीव्रलोभोदयात्परिग्रहाभिलाषः ।
२ गतिरन्तरालवर्तिनी द्विधा, ऋज्वी वक्री च, ऋज्वी तावत् पूर्वशरीरयोगोत्थापितप्रयत्नविशेषादेव गतिरिष्यते । धनुाविमोक्षाहितसंस्कारेषुगमनवत् । तस्यां च पूर्वकः स एव योगो वाच्यः । अतोऽन्यस्यानुविग्रहगतौ कर्मयोगः विग्रहो वक्रमुच्यते, विग्रहेण युक्ता गतिविग्रहगतिः । विग्रहप्रधाना वा गतिविग्रहगतिः । तस्यां विग्रहगतौ कर्माष्टकेनैव योगो न शेषौदारिकादिकायवाङ्मनोव्यापार इति ।
३ कार्मणशरीरकृतैव चेष्टेत्यर्थः । अ. २ सू. ४९, अ. ८ सू. ११ ४ कर्मैव शरीरं कार्मणम् ।।
५ अयं च नियमोऽन्तर्गतेरेव क्रियते न कार्मणस्येति ख्यापयन्नाह-अन्यत्र तु यथोक्तः 'कायवाङ्मनोयोग' - इति । अन्तर्गतेरन्यत्र यथाभिहित आगमे कायादियोगा भवति । तुशब्दो गत्यन्तरविशेषप्रदर्शनपरतयोक्तः । तद्यथा नारकगर्भव्युत्क्रान्तितिर्यग्मनुष्यदेवानां त्रयोऽपि योगाः संमूर्च्छनजन्मभाजां तिर्यग्मनुष्याणां कायवाग्योगावेव ।
६ आकाशप्रदेशानुश्रेणिरूपेण जीवपुद्गलानां या गतिः । तद्रूपत्वं-अनुश्रोणिगतेर्लक्षणम् । आकाशप्रदेशपंक्त्यनुसारेण गमनरूपत्वं वा । उक्तलक्षणायाः श्रेणेविंगतो या गतिः सा विश्रेणिर्जीवानाम् ।
७ ऋजुगतिका ।