SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः । कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २४ ॥ कृम्यादीनां पिपीलिकादीनां भ्रमरादीनां मनुष्यादीनां च यथासङ्ख्यमेकैकवृद्धानीन्द्रियाणि भवन्ति यथाक्रमम् । तद्यथा । कम्यादीनां अपादिक-नूपुरक- गण्डूपद - शङ्ख- शुक्तिका - शम्बूकाजलौका-प्रभृतीनामेकेन्द्रियेभ्यः पृथिव्यादिभ्य एकेन वृद्धे स्पर्शनरसनेन्द्रिये भवतः । ततोऽप्येकेन वृद्धानि पिपीलिका- रोहिणिकाउपचिका - कुन्थु - तुंबुरुक - त्रपुसबीज - कर्पासास्थिका - शतपद्युत्पतकतृणपत्र - काष्ठहारकप्रभृतीनां त्रीणि स्पर्शनरसनघ्राणानि । ततोऽप्येकेन वृद्धानि भ्रमर-वटर - सारङ्ग-मक्षिका-दंश-मशक- वृश्चिक - नन्द्यावर्त-कीटपतङ्गादीनां चत्वारि स्पर्शनरसनघ्राणचक्षूंषि । शेषाणां च तिर्यग्योनिजानां मत्स्योरगभुजङ्गपक्षि- चतुष्पदानां सर्वेषां च नारकमनुष्यदेवानां पञ्चेन्द्रियाणीति ॥ २४ ॥ अत्राह । उक्तं भवता द्विविधा जीवाः । समनस्का अमनस्काश्चेति । तत्र के समनस्का इति । अत्रोच्यते ४७ संज्ञिनः समनस्काः ॥ २५ ॥ संप्रधारणसंज्ञायां संज्ञिनो जीवाः समनस्का भवन्ति । सर्वे नारकदेवा गर्भव्युत्क्रान्तयश्च मनुष्यास्तिर्यग्योनिजाश्च केचित् ॥ इहोपोहयुक्ता गुणदोषविचारणात्मिका संप्रधारणसंज्ञा । तां प्रति १ अतः प्रभृतिसूत्रसमाप्तिपर्यन्तं ग्रन्थः श्रीहेमचन्द्राचार्यैः प्रमाणमीमांसायां किंचिद्भेदेन शब्दशः संगृहीतः (पृ. २८/२९ ) अपादिकादयो जन्तवः संप्रदायप्रसिद्धानुसारं ज्ञातुं शक्याः । कोशादिष्वेषां शब्दानामनुपलम्भात् । २ संज्ञानं संज्ञा भूतभवद्भाविभावस्वभावपर्यालोचनम् । मानसक्रियाविशेषो वा सा विद्यते यस्य स संज्ञी । किंच ह्यस्तने दिवसेऽहमेवमकार्षम् । श्वस्तने त्वेवमन्यथा बा करिष्यामीति चिन्तनं सा दीर्घकालिकी संज्ञेत्युच्यते । द्वित्रिचतुरिन्द्रियाणां हि यद्यपि हेतुवादोपदेशिकसंज्ञया भवति वर्तमानकालिकस्मरणं तथापि ते ' दीनारमात्रेण कुतो धनवान् ' इति न्यायादसंज्ञिन एव बोध्याः । अतीतानागतयोश्चिन्तनवे कल्यात् । अतो दीर्घकालिकसंज्ञयैव संज्ञिताव्यवहारः । संज्ञा त्रिधा १ हेतुवादोपदेशिकी २ दीर्घकालिकी ३ दृष्टिवादोपदेशिकी चेति । अत्र तृतीया तु सम्यग्दर्शनवतामेव संशिपञ्चेन्द्रियाणां भवति तदपेक्षया सर्वे मिथ्यात्विसंसारजीवा असंशिन इत्युच्यमानाः स्युः ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy