________________
सभाष्यतत्वार्याधिगमसूत्रेषु -
४६ उपयोगः स्पर्शादिषु ॥ १९ ॥ स्पर्शादिषु मतिज्ञानोपयोग इत्यर्थः । उक्तमेतदुपयोगो लक्षणम् । उपयोगः प्रणिधानमायोगस्तद्भावः परिणाम इत्यर्थः । एषां च सत्यां निर्वृत्तावुपकरणोपयोगौ भवतः । सत्यां च लब्धौ निर्वत्त्युपकरणोपयोगा भवन्ति । निर्वृत्त्यादीनामेकतराभावे विषयालोचनं न भवति ॥ १९ ॥ ____ अत्राह । उक्तं भवता पञ्चन्द्रियाणीति । तत्कानि तानीन्द्रियाणीत्युच्यते
स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥ २० ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमित्येतानि पञ्चेन्द्रियाणि ॥२०॥
स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः ॥ २१॥ एतेषामिन्द्रियाणामेते स्पर्शादयोऽर्था भवन्ति यथासङ्खयम् ॥२१॥
__ श्रुतमानिन्द्रियस्य ॥ २२ ॥ श्रुतज्ञानं द्विविधमनेकद्वादशविधं नोइन्द्रियस्यार्थः ॥२२॥
अत्राह । उक्तं भवता पृथिव्यब्बनस्पतितेजोवायवो द्वीन्द्रियादयश्च नव जीवनिकायाः। पञ्चेन्द्रियाणि चेति । तत्किं कस्येन्द्रियमिति । अत्रोच्यते
वाय्वन्तानामेकम् ॥ २३ ॥ पृथिव्यादीनां वाय्वन्तानां जीवनिकायानामेवेन्द्रियं सूत्रक्रमप्रामाण्यात्प्रथमं स्पर्शनमेवेत्यर्थः ॥२३॥
१ अ. २ सू. ८.
२ अङ्गबाह्यं, अङ्गान्तरगतं च । आद्यं-आवश्यकाद्यनेकभेदम् । द्वितीयंआचाराङ्गादिद्वादशभेदम् ।
३ नोइन्द्रियस्य-मनसः। ४ अर्थः-विषयः ।