________________
४५
द्वितीयोऽध्यायः ।
धार्थश्व । इन्द्रियमिन्द्रलिङ्गमिन्द्रादिष्टमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिति वा । इन्द्रो जीवः सर्वद्रव्येष्वैश्वर्ययोगाद्विषयेषु वा परमैश्वर्ययोगात् । तस्यं लिङ्गमिन्द्रियं लिङ्गनात्सूचनात्मदर्शनादुपष्टम्भन व्यञ्जनाच जीवस्य लिङ्गमिन्द्रियम् ॥ १५ ॥ द्विविधानि ॥ १६ ॥
द्विविधानीन्द्रियाणि भवन्ति । द्रव्येन्द्रियाणि भावेन्द्रियाणि
च ॥ १६ ॥
तत्र
निर्वृत्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥
निर्वृत्तीन्द्रियमुपकरणेन्द्रियं च द्विविधं द्रव्येन्द्रियम् । निर्वृत्तिरङ्गोपाङ्गनामनिवर्तितानीन्द्रियद्वाराणि कर्मविशेष संस्कृताः शरीरप्रदेशाः । निर्माणनांमाङ्गोपाङ्गप्रत्यया मूलगुणनिर्वर्तनेत्यर्थः । उपकरणं बाह्यमभ्यन्तरं च । निर्वर्तितस्यानुपघातानुग्रहाभ्यामुपकारीति ॥१७॥
लब्ध्युपयोगौ भावेन्द्रियम् ॥ १८
लब्धिरुपयोगच भावेन्द्रियं भवति । लब्धिर्नाम गति जात्यादिनामकर्मजनिता तदावरणीयकर्मक्षयोपशम जनिता चेन्द्रियाश्रयकमोंदयनिर्वृत्ता च जीवस्य भवति । सा पञ्चविधा । तद्यथा । स्पर्शनेन्द्रियलाब्धः रसनेन्द्रियलब्धिः घ्राणेन्द्रियलब्धिः चक्षुरिन्द्रियलब्धिः श्रोत्रेन्द्रियलब्धिरिति ॥ १८ ॥
१ " इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्ट मिन्द्रजुष्टमिन्द्रदत्तमिति वा पाणिनिसूत्रम् ५-२-९३ |
२३ अ. ८ सू. १२.
" इति