________________
द्वितीयोऽध्यायः।
स्यैव वैशेषिकास्ते स्वशब्देनोक्ता इति । एते पञ्च भावास्त्रिपश्चाशछेदा जीवस्य स्वतत्त्वं भवन्ति । अस्तित्वादयश्च ॥ ७ ॥ किं चान्यत्
उपयोगो लक्षणम् ॥ ८॥ उपयोगो लक्षणं जीवस्य भवति ॥८॥
स द्विविधोऽष्टचतुर्भेदः ॥ ९॥ स उपयोगो द्विविधः साकारोऽनाकारश्च ज्ञानोपयोगो दर्शनोपयोगश्चेत्यर्थः । स पुनर्यथासङ्ख्यमष्टचतुर्भेदो भवति । ज्ञानोपयोगोऽष्टविधः । तद्यथा । मतिज्ञानोपयोगः श्रुतज्ञानोपयोगोऽवधिज्ञानोपयोगो मनःपर्यायज्ञानोपयोगः केवलज्ञानोपयोगो मत्यज्ञानोपयोगः श्रुताज्ञानोपयोगो विभङ्गज्ञानोपयोग इति । दर्शनोपयोगश्चतुर्भेदः । तद्यथा । चक्षुर्दर्शनोपयोगोऽचक्षुर्दर्शनोपयोगोऽवधिदर्शनोपयोगः केवलदर्शनोपयोग इति ॥ ९॥
संसारिणो मुक्ताश्च ॥ १०॥ ते जीवाः समासतो द्विविधा भवन्ति संसारिणो मुक्ताश्च ॥ १०॥
किं चान्यत्
१ एत इति प्रतिपदं य उद्दिष्टा(२।१)औपशमिकादयः पञ्चैवान्यूनाधिका भावाः पर्यायान्तराण्यात्मनस्त्रिपंचाशद्भदा भवन्ति । आत्मनः स्वतत्त्वं द्विनवाष्टादिसूत्रेण (२।२) संख्या प्राक् नियता सैवानेनोपसंहृतेति । एते च भावविकल्पा जीवानां यथासंभवमायोज्या न सर्वे सर्वेषामिति । क्षायिकपारिणामिकावेव सिद्धानाम् । औपशमिकवा नारकतिर्यग्योनीनाम् । देवमनुष्याणां पञ्चापि । न त्वौपशमिकक्षायिके सम्यक्त्वचारित्रे वा युगपद्भवत इति।