________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु ४२ जीवभव्याभव्यत्वादीनि च ॥ ७॥ जीवत्वं भव्यत्वमभव्यत्वमित्येते त्रयः पारिणामिका भावा भवन्तीति । आदिग्रहणं किमर्थमिति । अत्रोच्यते । अस्तित्वमन्यत्वं कर्तृत्वं भोक्तृत्वं गुणवत्वमसर्वघ्तत्वमनादिकर्मसन्तानबद्धत्वं प्रदेशत्वमरूपत्वं नित्यत्वमित्येवमादयोऽप्यनादिपारिणामिका जीवस्य भा. वा भवन्ति । धर्मादिभिस्तु समाना इत्यादिग्रहणेन सूचिताः ।ये जीव
१ द्विनवाष्टादिसूत्रेण जीववर्तिन एव त्रिपञ्चाशद्भेदाः संग्रहीता इति संख्यानियमो न भिद्यते न चानर्थक्यं सूत्रस्य जीववर्तिनोऽजीववानिश्च साधारणाः पारिणामिकस्ते तत्र नोपात्तास्तदुपादानायेदमादिग्रहणम् ।
२ अस्तित्वं भावानां मौलो धर्मः सत्तारूपत्वम् । ३ शरीरादात्मनस्तद्विलक्षणत्वात्परलोकसद्भावाच्चावश्यमन्यत्वमभ्युपेयम् । ४ शुभाशुभकर्मणो निर्वर्तकत्वं योगप्रयोगसामर्थ्यात् । ५ कर्तृत्वादेव च भोक्तृत्वम् ।
६ क्रोधादिमत्त्वात् गुणवत्त्वं ज्ञानाद्यात्मकत्वाद्वा । परमाण्वादावपि गुणवत्त्वं एकवर्णादित्वात्समानम् ।
७ त्वपर्यन्तशरीरमात्रव्यापित्वात् असर्वगतत्वं संसार्यात्मनो मुक्तस्यापि समन्ततः परिमितत्वात् । स्वदेहप्रमाणत्रिभागहीनावगाहात्मकत्वादसर्वव्यापिता परमाण्वादिभिस्तुल्या।
८ अविद्यमानादिकर्मसंतत्या वेष्टितः संसारी संसृतौ पर्यटतीति न मुक्त इति । ९ प्रदेशत्वं तु लोकाकाशप्रदेशपरिमाणप्रदेश एक आत्मा भवति । १० रूपरसगन्धस्पर्शविरहितत्वादात्मनोऽरूपत्वं तच्चाकाशादिभिस्तुल्यम् ।
११ 'तद्भावाव्ययं नित्यम्' ५।३० इति वक्ष्यते । नित्यश्च ततो ज्ञानादिसद्भावादयमात्मा तुल्यं चैतदाकाशादिभिरेवमेते दश धर्माः साधारणा भाष्यकृतोपदर्शिता आदिशब्दाक्षिप्ताः।
१२ पुनरप्यादिग्रहणं कुर्वन् ज्ञापयत्यत्रानन्तधर्मकमेकं तत्राशक्याः प्रस्तारयितुं सर्वे धर्माः प्रवचनशेन पुंसा यथासंभवमायोजनीयाः । क्रियावत्त्वं पर्यायोपयोगिता प्रदेशाष्टकनिश्चलता एवंप्रकाराः सन्ति भूयांसः ।