SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धत्वलेश्याश्च _तुश्चतुस्त्येकैकैकैकषट्भेदाः॥६॥ गतिश्चतुर्भेदा नारकतैर्यग्योनमनुष्यदेवा इति । कषायश्चतुभेंदः क्रोधी मानी मायी लोभीति । लिङ्ग त्रिभेदं स्त्रीपुमान्नपुंसकमितिमिथ्यादर्शनमेकभेदं मिथ्यादृष्टिरिति । अज्ञोनमेकभेदमज्ञानीति । असंयतत्वमेकभेदमसंयतोऽविरत इति । असिद्धत्वमेकभेदमसिद्ध इति। एकभेदमेकविधामति । लेश्याः षट्भेदाः कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या । इत्येते एकविंशतिरौदयिकभावा भवन्ति ॥ ६॥ १ गतिनामकर्मोदयाद्विवक्षितभवाद्भवान्तरगमनयोग्यत्वं गतेर्लक्षणम् । २ कषः संसारस्तस्याय उपादानकारणविशेषः कषायः। अथवा कष्यन्ते पीडयन्ते प्राणिनः परस्परं यस्मिन्नसौ कषः संसारः । तमयन्ते प्राप्नुवन्ति जन्तवोऽनेनेति कषायः क्रोधमानमायारूपः । संसारप्राप्तिनिमित्तरूपत्वं कषायस्य लक्षणम् । ३ वेदोदयजन्यत्वे सति मैथुनेच्छारूपत्वं लिङ्गस्य लक्षणम् । ४ अतत्त्वे तत्त्वबुद्धिरूपत्वम् । ५ मिथ्यात्वमोहोदये सति अतत्त्वज्ञानरूपत्वं अज्ञानस्य लक्षणम् । ६ कर्मोदयप्रभवत्वमसिद्धस्य लक्षणम् । ७ (१) कृष्णद्रव्यसाचिव्याद् मूलाद् वृक्षोन्मूलनपरिणामतुल्यरूपत्वं कृष्णले. श्याया लक्षणम् । (२) नीलद्रव्यसाचिव्यात्फलादनेच्छया महाशाखापातनपरिणामतुल्यपरिणामरूपत्वं नीललेश्यालक्षणम् । (३) कापोतद्रव्यसाचिव्यात्फलादनेच्छया प्रशाखापातनपरिणामतुल्यपरिणामरूपत्वं कापोतलेश्यालक्षणम् । (४) रक्तवर्णद्रव्यसाचिव्यात्फला. दनेच्छया गुच्छसंदोहच्छेदनपरिणामतुल्यपरिणामरूपत्वं तेजोलेश्यालक्षणम् । (५) पीतवर्णद्रव्यसाचिव्यात्फलादनेच्छया फलोच्छेदनपरिणामतुल्यपरिणामरूपत्वं पद्मलेश्यालक्षणम् । (६) शुक्लवर्णद्रव्यसाचिव्यात्पतितफलादनेच्छया फलग्रहणपरिणामतुल्यपरिणामरूपत्वं शुक्ललेश्यालक्षणम् ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy