SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयोऽध्यायः। अत्राह । उक्तं भवता जीवादीन तत्त्वानीति । तत्र को जीवः कथं लक्षणो वति । अत्रोच्यतेऔपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्व मौदयिकपारिणामिकौ च ॥ १॥ १ औपशमिकः २ क्षायिकः ३क्षायोपशामिकः ४ औदयिकः ५ पारिणामिक इत्येते पञ्च भावा जीवस्य स्वतत्त्वं भवन्ति ॥ ५ ॥ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥ २ ॥ एते औपशमिकादयः पञ्च भावा द्विनवाष्टादशैकविंशतित्रिभेदा भवन्ति । तद्यथा । औपशमिको द्विभेदः क्षायिको नवभेदः क्षायोपशमिकोऽष्टादशभेदः औदयिक एकविंशतिभेदः पारिणामिकस्त्रिभेद इति । यथाक्रममिति येन सूत्रक्रमेणात ऊर्च वक्ष्यामः ॥ २॥ सम्यक्त्वचारित्रे ॥ ३ ॥ सम्यक्त्वं चारित्रं च द्वावौपशमिको भावौ भवत इति ॥३॥ १ अत्र घूणाक्षरन्यायात्पारिणामिकभावः-न खलु घूणाख्यजन्तुवेधितशुष्ककाष्ठसूक्ष्मचूर्णकणसमुदायाधःपतनस्वयं परिणताक्षरस्य कश्चिल्लेखको वर्तत इति । रूपान्तरपरिणमनं ह्युदयः स च परमार्थतः पुद्गलेष्वेव, उपचारात्तु जीवेष्वपीति यतो हि कदाचित्परमाणुरेकगुणकृष्णवर्णपरिणतो भूत्वा द्विगुणकृष्णिमपरिणतः स्यात् । एकगुणत्वाद् द्विगुणत्वं रूपान्तरमेव इत्येवमन्यत्रापि परिणामः षड्द्रव्येऽपि । २ स्वतत्त्वं-स्वभावः । ३ सम्यक्त्वं-तत्त्वरुचिः । सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणम् ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy