________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
श्रुतस्य सर्विपर्ययस्योपग्रहत्वात् । शब्दनयस्तु द्वे एव श्रुतज्ञानकेवलज्ञाने श्रयते ।
३८
अत्राह । कस्मान्नेतराणि श्रयत इति । अत्रोच्यते । मत्यधमनःपर्यायाणां श्रुतस्यैवोपग्राहकत्वात् । चेतनाज्ञस्वाभाव्याच्च सर्वजीवानां नास्य कश्चिन्मिथ्यादृष्टिरज्ञो वा जीवो विद्यते । तस्मादपि विपर्ययान्न श्रयत इति । अतश्च प्रत्यक्षानुमानोपमानाप्तवचनानामपि प्रामाण्यमभ्यनुज्ञायत इति ।
अत्राह च -
विज्ञायैकार्थपदान्यर्थपदानि च विधानमिष्टं च । विन्यस्य परिक्षेपान्नयैः परीक्ष्याणि तत्त्वानि ॥ १ ॥ ज्ञानं सविपर्यासं त्रयः श्रयन्त्यादितो नयाः सर्वम् । सम्यग्दृष्टेर्ज्ञानं मिथ्यादृष्टेर्विपर्यासः ॥ २ ॥ ऋजुसूत्रः षद् श्रयते मतेः श्रुतोपग्रहादनन्यत्वात् । श्रुतकेवले तु शब्दः श्रयते नोऽन्यच्छ्रताङ्गत्वात् ॥ ३ ॥ मिथ्यादृष्टयज्ञाने न श्रयते नास्य कश्चिदज्ञोऽस्ति । ज्ञस्वाभाव्याज्जीवो मिथ्यादृष्टिर्न चाप्यज्ञः ॥ ४ ॥ इति नयवादाश्चित्राः क्वचिद्विरुद्वा इवाथ च विशुद्धाः । लौकिक विषयातीतास्तत्त्वज्ञानार्थमधिगम्याः || ५ || |३५| इति सभाष्यतत्त्वार्थाधिगमसूत्रेषु प्रथमोऽध्यायः
समाप्तः ॥
१ व्यवहारावध।रणदशायामुपजीवकत्वात् ।
२ स्वालोचितार्थस्य परप्रत्यायने श्रुतस्यैव मुखनिरीक्षकत्वादित्यर्थः ।
३ चेतना-सामान्यपरिच्छेदकत्वं । ज्ञ इति भावप्रधाननिर्देशात् ज्ञत्वं - विशेषपरि
च्छेदिता तयोः स्वाभाव्यं तथाभवनं तस्मात् ।