________________
प्रथमोऽध्यायः।
भवस्थो जीवः प्रतीयते । कस्मात् । एष हि नयो जीवं प्रत्यौदयिकभावग्राहक एव । जीवतीति जीवः प्राणिति प्राणान्धारयतीत्यर्थः । तच्च जीवनं सिद्धे न विद्यते तस्माद्भवस्थ एव जीव इति । नोजीव इत्यजीवद्रव्यं सिद्धो वा। अजीव इत्यजीवद्रव्यमेव । नोअजीव इति भवस्थ एव जीव इति। समग्रार्थग्राहित्वाच्चास्य 'नयस्य नानेन देशप्रदेशौ गृह्यते । एवं जीवौ जीवा इति द्वित्वबहुत्वाकारितेष्वपि । सर्वसङ्ग्रहणे तु जीवो नोजीवः अजीवो नोअजीवः जीवौ नोजीवौ अजीवौ नोअजीवौ इत्येकद्वित्वाकारितेषु शून्यम् । कस्मात् । एष हि नयः सङ्ख्यानन्त्याज्जीवानां बहुत्वमेवेच्छति यथार्थग्राही । , शेषास्तु नया जात्यपेक्षमेकस्मिन्बहुवचनत्वं बहुषु बहुवचनं सर्वाकारितग्राहिण इति । एवं सर्वभावेषु नयवादाधिगमः कार्यः ।
__ अत्राह । पञ्चानां ज्ञानानां सविपर्ययाणां कानि को नयः श्रयत इति । अत्रोच्यते । नैगमादयस्त्रयः सर्वाण्यष्टौ श्रयन्ते। ऋजुसूत्रनयो मतिज्ञानमत्यज्ञानवर्जानि षट् ।।
अत्राह । कस्मान्मतिं सविपर्ययां न श्रयत इति । अत्रोच्यते ।
१ संसारी।
२ प्राणाः-इन्द्रियाणि पंच मनोवाक्कायास्त्रयः प्राणापानावेक आयुषश्चेति । पञ्चेन्द्रियाणि द्रव्यप्राणाः शेषास्तु भावप्राणाः।
३ जीवनं प्राणधारणलक्षणं सिद्धे न विद्यते ।
४ एवं तावच्चत्वारो विकल्पा एकवचनेन दर्शिताः । एवं द्विवचनेन चत्वारो विकल्पा नेयाः । १ जीवौ २ नोजीवौ ३ अजीवौ ४ नोअजीवौ तथा च बहुवचनेनापि चत्वार एव १ जीवाः २ नोजीवाः ३ अजीवाः ४ नोअजीवाः नेयाः । द्वित्वबहुत्वाकारितेषु द्विवचनबहुवचनाभ्यामुच्चारितेषु ।
५ एष-सङ्ग्रहनयः । ६ सविपर्ययाणां-अशानसाहतानाम् ।