SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः । श्रुताज्ञानं विभङ्गज्ञानमिति । अवधिर्विपरीतो विभङ्ग इत्युच्यते॥३२॥ ___ अत्राह । उक्तं भवता सम्यग्दर्शनपरिगृहीतं मत्यादिज्ञानं भवत्यन्यथाऽज्ञानमेवेति । मिथ्यादृष्टयोऽपि च भव्याश्चाभव्याचेन्द्रियनिमित्तानविपरीतान्स्पर्शादीनुपलभन्ते उपदिशन्ति च स्पर्श स्पर्श इति रसं रस इति । एवं शेषान् । तत्कथमेतदिति । अत्रोच्यते । तेषां हि विपरीतमेतद्भवात ॥ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥ ३३ ॥ ___यथोन्मत्तः कर्मोदयादुपहतेन्द्रियमातर्विपरीतग्राही भवति सोऽश्वं गौरित्यध्यवस्यात गां चाश्व इति लोष्टं सुवर्णमिति सुवर्ण लोष्ट इति लोष्टं च लोष्ट इति सुवर्ण सुवर्णमिति तस्यैवमविशेषेण लोष्टं सुवर्ण सुवर्ण लोष्टमिति विपरीतमध्यवस्यतो नियतमज्ञानमेव भवति । तद्वन्मिथ्यादर्शनोपहतेन्द्रियमतेर्मतिश्रुतावधयोऽप्यज्ञानं भवन्ति ॥ ३३॥ ॥ नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दा नयाः ॥ ३४ ॥ १ नैगमः २ सङ्ग्रहो ३ व्यवहार ४ ऋजुसूत्रः ५ शब्द इत्येते पञ्च नया भवन्ति ॥ ३४ ॥ तत्र१ मिथ्यादृष्टिपरिगृहीतं श्रुतं श्रुताज्ञानम् । २ मिथ्यादृष्टिपरिगृहीतोऽवधिविभङ्गज्ञानम् । ३ भवति परमपदयोग्यतामापादयति इति भव्यः सिद्धिगमनयोग्यः । ४ तथाविधानादिपारिणामिकभावात् ( कदाचनापि ) सिद्धिगमनायोग्यः । ५ गन्धरूपशब्दानवैपरीत्येन । ६ कदाचिच्च लोष्टं लोष्टमेवाध्यवस्यति कदाचिद्वा सुवर्णमित्येव तस्योन्मत्तस्यैवमुक्तेनाविशेषेण अयथावदवबोधे लोष्टं सुवर्णमित्येवं विपरीतमध्यवस्यतः नियतं निश्चितमज्ञानमेव कुत्सितमेव तज्ज्ञानं भवतीति । ७ अ. १ सू. ३५ भाष्यम् ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy