________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु ३२ तदभिभूतत्वादकिंचित्कराणि भवन्तीन्द्रियवत् । यथा वा व्यभ्रे नभसि आदित्य उदिते भूरितेजस्त्वादादित्येनाभिभूतान्यन्यतेजांसि ज्वलनमणिचन्द्रनक्षत्रप्रभृतीनि प्रकाशनं प्रत्याकिंचित्कराणि भवन्ति तद्वदिति । केचिदप्याहुः। अपायसद्रव्यतया मतिज्ञानं तत्पूर्वकं श्रुतज्ञानमवधिज्ञानमनःपर्यायज्ञाने च रूपिद्रव्यविषये तस्मान्नैतानि केवलिनः सन्तीति ॥ किं चान्यत् । मतिज्ञानादिषु चतुर्यु पर्यायेणोपयोगो भवति न युगपत् । संभिन्नज्ञानदर्शनस्य तु भगवतः केवलिनो युगपत्सर्वभावग्राहके निरपेक्षे केवलज्ञाने केवलदर्शने चानुसमयमुपयोगो भवति ॥ किं चान्यत् । क्षयोपशमजानि चत्वारि ज्ञानानि पूर्वाणि क्षयादेव केवलं । तस्मान्न केवालनः शेषाणि ज्ञानानि सन्तीति ॥ ३१॥
॥ मतिश्रुतावधयो विपर्ययश्च ॥ ३२ ॥ मतिज्ञानं श्रुतज्ञानमवधिज्ञानमिति । विपर्ययश्च भवत्यज्ञानं चेत्यर्थः । ज्ञानविपर्ययोऽज्ञानमिति ।
अत्राह । तदेव ज्ञानं तदेवाज्ञानमिति । ननु च्छायातपवच्छीतोष्णवच्च तदत्यन्तविरुद्धमिति । अत्रोच्यते । मिथ्यादर्शनपरिग्रहाद्विपरीतग्राहकत्वमेतेषाम् । तस्मादज्ञानानि भवन्ति । तद्यथा । मत्यज्ञानं
१ व्यभ्रे-मेघरहिते।
२ अनुगतोऽव्यवहितः समयोऽत्यन्ताविभागकालो यत्र कालसन्ताने सः कालसन्तानोऽनुसमयस्तमनुसमयं कालसन्तानमुपयोगो भवति । वारंवारेणोपयोगो भवतीति यावत् । एकस्मिन् समये केवलज्ञानोपयोगे वृत्ते ततोऽन्यस्मिन्केवलदर्शनोपयागे इति । एवं सर्वकालमवसेयम् ।
३ मिथ्यादृष्टिपरिगृहीता मतिर्मत्यज्ञानम् ।