________________
प्रथमोऽध्यायः । ॥ सर्वद्रव्यपर्यायेषु केवलस्य ॥ ३० ॥ ___ सर्वद्रव्येषु सर्वपर्यायेषु च केवलज्ञानस्य विषयनिबन्धो भवति। तद्धि सर्वभावग्राहकं सम्भिन्नलोकालोकविषयम् । नातः परं ज्ञानमास्ति । न च केवलज्ञानविषयात्परं किंचिदन्यज्ञेयमस्ति । केवलं परिपूर्ण समग्रमसाधारणं निरपेक्षं विशुद्धं सर्वभावज्ञापकं लोकालोकविषयमनन्तपर्यायमित्यर्थः ॥ ३० ॥
___ अत्राह । एषां मतिज्ञानादीनां युगपदेकस्मिञ्जीवे कति भवतीति । अत्रोच्यते-- ॥ एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्म्यः ॥३१॥
एषां मत्यादीनां ज्ञानानामादित एकादीनि भाज्यानि युगपदेकस्मिञ्जीवे आ चतुर्व्यः । कस्मिंश्चिज्जीवे मत्यादीनामेकं भवति । कस्मिंश्चिज्जीवे द्वे भवतः । कस्मिंश्चित्रीणि भवन्ति । कस्मिंश्चिच्चत्वारि भवन्ति । श्रुतज्ञानस्य तु मतिज्ञानेन नियतः सहभावस्तत्पूर्वकत्वात् । यस्य तु मतिज्ञानं तस्य श्रुतज्ञानं स्याद्वा न वेति ।
अत्राह । अथ केवलज्ञानस्य पूर्वैर्मतिज्ञानादिभिः किं सहभावो भवति । नेत्युच्यते । केचिदाचार्या व्याचक्षते । नाभावः किं तु
१ सम्भिन्नौ संपूर्णी यौ लोकालोकौ तद्विषयम् । लोको धर्माधर्मद्रव्यद्वयावच्छिनमाकाशं यत्र त्वाकाशे तौ धर्माधर्मो न स्तः सोऽलोकः ।
२ क्वचित्प्रथमं क्वचिद् द्वे इत्यादिप्रकारेण विकल्पनीयानि ।
३ केचिदाचार्या व्याचक्षते-नाभाव एवास्ति पूर्वप्राप्तानां मतिज्ञानादीनां नाशकाभावात् । ऐकाधिकरण्यावच्छिन्नस्वपूर्ववर्तितासम्बन्धेन केवलस्यैव स्वसमानाधिकरणगुणनाशकत्वे ज्ञानचतुष्टयवत् शर्मवीर्यदर्शनसुखितत्वादपि नाशप्रसङ्गात् न च तन्नाशः परस्यापि सम्भवात् तस्मात्सहावस्थानमस्त्येव मत्यादीनां केवलेन ततः किमिति तानि स्वमर्थं न प्रकाशयन्ति उच्यते अभिभवात् तदाह किं त्वभिभूतत्वात् हतप्रभावत्वात् । अकिञ्चित्कराण स्वकार्याकारीणि भवन्तीन्द्रियवच्चक्षुरादिवत् । यथाहि केवलिनः सदपि चक्षुरादीन्द्रियं विषयग्रहणं प्रति न व्याप्रियते । केवलाप्रकाशेन चरितार्थत्वात् । एवं मत्यादिचतुष्टयमपीति भावः ।