________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
३०
अत्राह । उक्तं मनःपर्यायज्ञानम् । अथ केवलज्ञानं किमिति । अत्रोच्यते । केवलज्ञानं दशमेऽध्याये वक्ष्यते । मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलमिति ।
अत्राह । एषां मतिज्ञानादीनां ज्ञानानां कः कस्य विषयनिबन्ध इति अत्रोच्यते
॥ मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वसर्व पर्यायेषु ॥ २७ ॥
मतिज्ञानश्रुतज्ञानयोर्विषयनिबन्धो भवति सर्वद्रव्येष्वसर्वपर्यायेषु। ताभ्यां हि सर्वाणि द्रव्याणि जानीते न तु सर्वैः पर्यायैः ॥२७॥ ॥ रूपिष्ववधेः ॥ २८ ॥
रूपिष्वेव द्रव्येष्ववधिज्ञानस्य विषयनिबन्धो भवति असर्वपर्यायेषु । सुविशुद्धेनाप्यवधिज्ञानेन रूपीण्येव द्रव्याण्यवधिज्ञानी जानीते तान्यपि न सर्वैः पर्यायैरिति ॥ २८ ॥
॥ तदनन्तभागे मनः पर्यायस्य ॥ २९ ॥
यानि रूपाणि द्रव्याण्यवधिज्ञानी जानीते ततोऽनन्तभागे मन:पर्यायस्य विषयनिर्बंन्धो भवति । अवधिज्ञानविषयस्यानन्तभागं मन:पर्ययज्ञानी जानीते रूपिद्रव्याणि मनोरहस्य विचारगतानि च मानुषक्षेत्र पर्यापत्नानि विशुद्धतराणि चेति ॥ २९ ॥
१ अस्मन्मुद्रापितप्रमाणमीमांसायां पृ. १८ टिप्पन्यां द्रष्टव्यम् ।
२ सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि तेषु धर्माधर्माकाशपुद्गलजीवास्तिकायाख्येषु । असर्वपर्यांयेषु सर्वे निरविशेषा उत्पादव्ययश्रौव्यात्मकाः पर्याया येषां तानि सर्व पर्यायाणि न सर्वपर्यायाणि असर्वपर्यायाणि तेषु ।
३ शुक्लादिगुणोपेतानि रूपाणि द्रव्याणि जानात्यवधिज्ञानी तेषामवधिज्ञानदृष्टानामनन्तभागो यस्तस्मिन्ननन्तभागे एकस्मिन् मनःपर्यायज्ञानी जानीते ।