SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः। ऋजुमातमनःपर्यायाद्विपुलमतिमनःपर्यायज्ञानं विशुद्धतरम् । किं चान्यत् । ऋजुमतिमनःपर्यायज्ञानं प्रतिपतत्यपि भूयो विपुलमतिमनःपर्यायज्ञानं तु न प्रतिपततीति ॥ २५ ॥ अत्राह । अथावधिमनःपर्यायज्ञानयोः कः प्रतिविशेष इति अत्रोच्यते॥ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्याययोः॥ २६॥ विशुद्धिकृतः क्षेत्रकृतः स्वामिकृतो विषयकृतश्चानयोर्विशेषो भवत्यवधिमनःपर्यायज्ञानयोः । तद्यथा । अवधिज्ञानान्मनःपर्यायज्ञानं विशुद्धतरम् । यावन्ति हि रूपीणि द्रव्याण्यवधिज्ञानी जानीते तानि मनःपर्यायज्ञानी विशुद्धतराणि मनोगतानि जानीते । किं चान्यत् । क्षेत्रकृतश्चानयोः प्रतिविशेषः । अवधिज्ञानं संयतस्य असंयतस्य वा सर्वगतिषु भवति । मनःपर्यायज्ञानं तु मनुष्यसंयतस्यैव भवति नान्यस्य ॥ किं चान्यत् विषयकृतश्चानयोः प्रतिविशेषः । रूपिव्येष्वसर्वपर्यायेष्ववधेर्विषयनिबन्धो भवति । तदनन्तभागे मनःपयार्यस्योत ॥ २६॥ १ प्रतिपतति-प्रच्यवते । २ पापजनकव्यापारात्सर्वथा विरतस्य मुनेः । ३ पूर्वोक्तविपरीतस्य। ४ रूपिद्रव्येषु-परमाण्वादिषु । ५ एकज्ञानविषयतया सर्वपर्यायरहितेषु । ६ विषयनिबन्धः-गोचरनिबन्धः । तद्धि एकैकस्य परमाणोः कदाचित् असंख्येयान् पर्यायान् जानाति कदाचित् संख्येयान् जघन्येन चतुरो रूपरसगन्धस्पर्शान् । न तु कदाप्यनन्तान् । केवलज्ञानस्यैवानन्तपर्यायग्राहकत्वात् । मनःपर्यायज्ञानस्य तु रूपिद्रव्याणि न सर्वाणि विषयस्तेषामवधिज्ञानज्ञातानां द्रव्याणामनन्तभागीकृतानां य एकोऽनन्तभागस्तस्मिन्नेवास्य विषयनिबन्धः । तस्मादतीन्द्रियत्वादितौल्येऽप्यवधिमनःपर्याययोर्भेद इति सिद्धम् ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy