SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सभाष्यतस्त्वार्थाधिगमसूत्रेषु मधो यदुत्पन्नं क्रमशः संक्षिप्यमाणं प्रतिपतति आ अङ्गुलासंख्येयभागात प्रतिपतत्येव वा परिच्छिन्नेन्धनोपादानसंतत्यग्निशिखावत् ।। वर्धमानकं यदङ्गुलस्यासंख्येयभागादिषूत्पन्नं वर्धते आ सर्वलोकात् अधरोत्तरारणिनिर्मथनोत्पन्नोपात्तशुष्कोपचीयमानाधीयैमानेन्धनराश्यग्निवत् ।। अनवस्थितं हीयते वर्धते च वर्धते हीयते च प्रतिपतति चोत्पद्यते चेति पुनः पुनरूर्मिवत् || अवस्थितं यावति क्षेत्रे उत्पन्नं भवति ततो न प्रतिपतत्या केवलमाप्तेः आ वक्षयाद्वा जायैन्तरस्थायि वा भवति लिङ्गेव ॥ २३ ॥ उक्तमवधिज्ञानम् । मनःपर्यायज्ञानं वक्ष्यामः - ॥ ऋजुविपुलमंती मनः पर्यायः ॥ २४ ॥ मनः पर्यायज्ञानं द्विविधम् । ऋजुमतिमनः पर्यायज्ञानं विपुलमतिमनः पर्यायज्ञानं च ॥ २४ ॥ अत्राह । कोऽनयोः प्रतिविशेष इति । अत्रोच्यते॥ विशुद्ध प्रतिपाताभ्यां तद्विशेषः ॥ २५ ॥ विशुद्धिकृतश्चाप्रतिपातकृतश्चानयोः प्रतिविशेषः । तद्यथा । २८ १ यथापनीतेन्धनाग्निज्वाला नाशमाशु प्रतिपद्यते तद्वदेतदपि । २ अधरोत्तरौ - अध उपरिवर्तिनौ यावरणी शम्यादिकाष्ठनिर्मितौ ताभ्यां यन्निर्मथनं परस्परं संघर्षणं तेन निष्पन्नं उद्भूतस्तथोपात्तं प्रक्षिप्तं शुष्कं यत्तृणादि तेनोपचीयमानो वृद्धिं गच्छन्नथ च आधीयमानः पुनः पुनः क्षिप्यमाण इन्धनानां पलालादीनां राशिर्यत्राग्नौ तद्वत् । यथाग्निः प्रयत्नादुपजातः सन् पुनरिन्धनलाभाद्विवृद्धिमुपागच्छत्येवं परमशुभाद्यध्यवसायलाभादसौ पूर्वोत्पन्नो वर्धत इत्यर्थः । ३ मरणं यावत् । ४ जात्यन्तरमपि गच्छन्तं जीवं न मुञ्चति तदवधिज्ञानम् । तेनान्वित एव गच्छति । ५ लिङ्गवत् - पुरुषवेदादिलिङ्गं त्रिधा तेन तुल्यं वर्तत इति लिङ्गवत् । यथा इह जन्मन्युपादाय पुरुषवेदं जन्तुर्जात्यन्तरमाधावति । एवमवधिमपि । ६ अ. १० सू. ७.
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy