SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः । ॥ भवप्रत्ययो नारकदेवानाम् ॥ २२ ॥ नारकाणां देवानां च यथास्वं भवप्रत्ययमवधिज्ञानं भवति । भवप्रत्ययं भवहेतुकं भवनिमित्तमित्यर्थः । तेषां हि भवोत्पत्तिरेव तस्य हेतुर्भवति पक्षिणामाकाशगमनवत् न शिक्षा न तप इति ॥ २२ ॥ ॥ यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् ॥ २३ ॥ यथोक्तनिमित्तः क्षयोपशमनिमित्त इत्यर्थः । तदेतदवधिज्ञानं क्षयोपशमनिमित्तं षड्विधं भवति शेषाणाम् । शेषाणामिति नारकदेवेभ्यः शेषाणाम् । तिर्यग्योनिजानां मनुष्याणां च । अवधिज्ञानावरणीयस्य कर्मणः क्षयोपशमाभ्यां भवति षड्विधम् । तद्यथा १ अनानुगामिकं २ आनुगामिकं ३ हीयमानकं ४ वर्धमानकं ५ अनवस्थितं ६ अवस्थितमिति । २७ तत्रानानुगामिकं यत्र क्षेत्रे स्थितस्योत्पन्नं ततः प्रच्युतस्य प्रतिपतति प्रश्नादेशपुरुषज्ञानवत् ॥ आनुगामिकं यत्र कचिदुत्पन्नं क्षेत्रान्तरगतस्यापि न प्रतिपतति भास्करप्रकाशवत् घटैरक्तभाववच्च ॥ हीयमानकं असंख्येयेषु द्वीपेषु समुद्रेषु पृथिवीषु विमानेषु तिर्यगूर्ध्व १ स्थानयोग्यतानतिक्रमेण । २ अस्मन्मुद्रापितप्रमाणमीमांसायां १८ पृष्ठे टिप्पन्यां द्रष्टव्यम् । त. सू. ८-७। ३ प्रश्नः पृच्छनं जीवधातुमूलानां तं प्रश्नमादिशतीति प्रश्नादेशः प्रश्नादेशश्वासौ पुरुषश्चेति प्रश्नादेशपुरुषस्तस्य ज्ञानं तेन तुल्यमेतद् दृश्यं पुरुषप्रश्नादेशज्ञानवदित्येवं गमकम्। अथवा प्रश्नादेशः प्रधानपुरुषस्तन्निष्ठस्तत्परायणस्तस्य ज्ञानं तद्वदिति । का पुनर्भावना । यथा नैमित्तिकः कश्चिदादिशत्कस्मिंश्चिदेव स्थाने शक्नोति संवादयितुं न सर्वत्र पृच्छ्यमानमर्थमेवं तदप्यवधिज्ञानं यत्र स्थितस्योपजातं तत्रस्थ एवोपलभते । नान्यत्रेति । ४ घटस्यापाकादुद्धृतस्य तडागादिनीतस्य रक्तता यथा न भ्रश्यति तद्वदानुगामिकमवधिज्ञानं न प्रतिपतति ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy