SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः । ॥ श्रुतं मतिपूर्व यनेकद्वादशभेदम् ॥२०॥ श्रुतज्ञानं मतिज्ञानपूर्वकं भवति । श्रुतमाप्तवचनमागमः उपदेश ऐतिह्यमाम्नायः प्रवचनं जिनवचनमित्यनन्तरम् । तद्विविधमङ्गबाह्यमङ्गप्रविष्टं च। तत्पुनरनेकविधं द्वादशविधं च यथासङ्ख्यम् । अङ्गबाह्यमनेकविधम् । तद्यथा । सामायिक चतुर्विंशतिस्तवो वन्दनं प्रतिक्रमणं १ तीर्थकरोपदिष्टत्वे सति बुद्धपतिशयवद्गणधरैरवधारितरूपत्वं श्रुतस्य लक्षणम् । २ प्रकर्षणनामादिभिनयप्रमाणनिर्देशादिभिश्च जीवादयोऽर्था उच्यन्तेऽनेन तत्प्रवचनम् । ३ अंगानि आचारादीनि (एषां वर्णनमस्मन्मुद्रापयिष्यमाणस्याद्वादमंजर्या पृ. १७६ टि. ३ द्रष्टव्यम् । तेभ्यो बाह्या अंगबाह्याः भिन्ना अनङ्गप्रविष्टाः-(१) चन्द्रप्रज्ञप्तिः (२) सूर्यप्रज्ञप्तिः (३) जम्बूद्वीपप्रशतिः (४) द्वीपसागरप्रशतिः । (स्था. ४ ठा. सू. २७७ ) इत्यादयः अनेकविधाः । ४ इह पुरुषस्य द्वादश अंगानि तद्यथा- द्वौ पादौ द्वे जङ्घ द्वे ऊरूणी द्वे गात्रार्धे द्वौ बाहू ग्रीवा शिरश्च । एवं श्रुतरूपस्यापि परमपुरुषस्याचारादीनि द्वादशांगानि ( १ आचारांगं २ सूत्र.तांगं ३ स्थानांगं ४ समवायांगं ५ भगवती (विवाहप्रशप्तिः) ६ ज्ञाताधर्मकथाङ्गं ७ उपासकदशाङ्ग ८ अंतकृद्दशांगं ९ अनुत्तरोपपातिकदशांग १० प्रश्नव्याकरणं ११ विपाकः १२ दृष्टिवादः) क्रमेण वेदितव्यानि । श्रुतपुरुषस्याङ्गेषु प्रविष्टमङ्गप्रविष्टम् । अङ्गभावेन व्यवस्थिताः श्रुतभेदाः गणधरा गौतमस्वाम्यादयः मूलभूतमाचारादिकं श्रुतमुपरचयन्ति तेषामेव सर्वोत्कृष्टश्रुतलब्धिसंपन्नतया तद्रचयितुमीशत्वान्न शेषाणां ततस्तत्कृतं सूत्रं मूलभूतमित्यंगप्रविष्टमुच्यते । यत्पुनः शेषैः श्रुतस्थविरैः भद्रबाहुस्वाम्यादिभिः तदेकदेशमुपजीव्य विरचितं तदनङ्गप्रविष्टम् स्थविरास्तु भद्रबाहुस्वाम्यादयस्तद्दष्टं श्रुतमावश्यकनियुक्तयादिकमनङ्गप्रविष्टमङ्गबाह्यमुच्यते । ५ समभावो यत्राध्ययने वर्ण्यते । ६ चतुर्विंशतीनां पूरणस्यारादुपकारिणो यत्र स्तवः शेषाणां च तीर्थकृतां स चतुर्विशतिस्तवः। ७ वन्दनं-गुणवतः प्रणामो यत्र वर्ण्यते तद्वन्दनम् । ८ असंयमस्थानं प्राप्तस्य यतेस्तस्मात् प्रतिनिवर्तनं यत्र वर्ण्यते । १.९ सू.२२
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy