SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सभाष्यतरवार्थाधिगमसूत्रेषु ॥ अर्थस्य ॥ १७ ॥ अवग्रहादयो मतिज्ञानविकल्पा अर्थस्य भवन्ति ॥ १७ ॥ २२ ॥ व्यञ्जनस्यावग्रहः ॥ १८ ॥ व्यञ्जनस्यावग्रह एव भवति नेहादयः । एवं द्विविधोऽवग्रहो व्यञ्जनस्यार्थस्य च । ईहादयस्त्वर्थस्यैव ॥ १८ ॥ ॥ न चक्षुरनिन्द्रियाभ्याम् ॥ १९ ॥ चक्षुषा नोइन्द्रियेण च व्यञ्जनावग्रहो न भवति । चतुर्भिरिन्द्रियैः शेषैर्भवतीत्यर्थः । एवमेतन्मतिज्ञानं द्विविधं चतुर्विधं अष्टाविंशतिविधं अष्टषष्टयुत्तरशतविधं षट्त्रिंशत्रिशतविधं च भैवति ॥ १९ ॥ १ अर्थः स्पर्शरसगन्धवर्णशब्दात्मकस्तस्य स्पर्शादेरर्थस्यावग्रहादयोऽवच्छेदका मतिज्ञानविकल्पाः- मतिज्ञानस्येन्द्रियादिभेदेनाविभक्तस्य विकल्पा अंशा इत्यर्थः । २ व्यज्यते प्रकटीक्रियतेऽर्थो येन दीपेनेव घटः, तद् व्यञ्जनम् । तथा - व्यञ्जनमुपकरणेन्द्रियस्पर्शाद्याकारपरिणतद्रव्यसंबन्धस्तस्यावग्रह एवैको भवति । ३ नोइन्द्रियम् - मनः । ४ चक्षुषा नोइन्द्रियेण च मन ओघज्ञानरूपेण च सहते रूपाकारपरिणताः पुद्गलाश्चिन्त्यमानाश्च वस्तुविशेषाः संश्लेषं न यान्ति अतो व्यंजनं चक्षुरुपकरणेन्द्रियनोइन्द्रिययोर्न भवति । ५ द्विविधं इन्द्रियानिन्द्रियनिमित्तभेदात् । चतुर्विधमवग्रहेहावायधारणाभेदतः। अष्टाविंशतिविधं स्पर्शनादीनां मनोऽन्तानां ( स्पर्शनर सेन चक्षुः श्रोत्राणि मनश्च ) पण प्रत्येकमवग्रहादिभिश्चतुर्भिश्चतुर्विंशती भेदेषु नयनमनोवर्जानां चतुर्णो व्यंजनावग्रहरूनभेदचतुत्र्यक्षेत्रात् । अष्टषष्टयुत्तरशतविधं - तस्या एवाष्टाविंशतेरेकैकभेदस्य बह्वादिभेदेन षोढाभवनात् । षटूत्रिंशत्रिशतविधं तस्या एवाष्टाविंशतेर्बह्वादिभिः सेतरैर्द्वादशधाभवनात् ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy