________________
. प्रथमोऽध्यायः। - -
ध्रुवमवगृह्णाति । अध्रुवमवगृह्णाति इत्येवमीहादीनामपि विद्यात् ॥ १६॥
तमेव भूयो योषिदादिस्पर्शमाशु स्वेनात्मना यदाऽवच्छिनत्ति तदा क्षिप्रमवगृह्णातीति भण्यते, यदा तु तमेव योषिदादिस्पर्श स्वेनात्मनाऽवच्छिनत्ति बहुना कालेन तदा चिरेणावगृह्णातीत्युच्यते । चिरणेति बहुना कालेन अनिश्रितमवगृहणातीति निश्रितो लिङ्गप्रमितोऽभिधीयते, यथा यूथिकाकुसुमानामत्यन्तशीतमृदुस्निधादिरूपः प्राक् स्पर्शोनुभूतस्तेनानुमानेन लिङ्गेन तं विषयं न यदा परिच्छिन्दत् तज्ज्ञानं प्रवर्तते तदा अनिश्रितं अलिङ्गमवगृह्णातीत्युच्यते, यदा त्येतस्मादाख्याताल्लिङ्गात्परिच्छि नत्ति निश्रितं, तदा सलिङ्गमवगृह्णातीति भण्यते । उक्तमवगृहूणातीत्ययन्तु विकल्पः श्रोत्रावग्रहविषय एव न सर्वव्यापीति, यत उक्तमुच्यते शब्दः स चाप्यक्षरात्मकः तमवगृह्णातीति । अनुक्तस्तूक्तादन्यो “ नअिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थ" (परिभाषेन्दुशेखरे प. ७४ ) इति अनया कल्पनया शब्द एव.नक्षरात्मकोsभिधीयते तमवगृह्णाति अनुक्तमवगृह्णातीति भण्यते । अव्याप्तिदोषभीत्या चारैरिमं विकल्पं प्रोज्झ्य अयं विकल्प उपन्यस्तो निश्चितमवगृह्णातीति निश्चितं सकलसंशयादिदोषरहितामति यथा तमेव योषिदादिस्पर्शमवगृह्णत् ज्ञानं योषित एव पुष्पाणामेव चन्दनस्यैवेत्येवं यदा प्रवर्तते तदा निश्चितमवगृह्णातीत्युपदिश्यते । अनिश्चितमवगृह्णातीति च कदा व्यपदिश्यते यदा तमेव स्पर्श संशयापन्नः परिच्छिनत्ति स्पर्शोऽयं भवत्येवन्तु न निश्चिनोति योषित एवायं विलोमधर्मादेरपीदृशो भवति योषिदादिना तदा तदा तमर्थमवच्छिनत्तीत्यर्थः । एतदुक्तं भवति सति चोपयोगे यदासौ विषयः स्पर्शाख्यः स्पृष्टो भवति तदा तमवगृह्णाति, एवम् अध्रवमवगृहणातीति सतीन्द्रिये सति चोपयोगे सति च विषयसम्बन्धे कदाचित्तं विषयं तथा परिच्छिनत्ति कदाचिन्नत्येतदध्रुवमवगृह्णातीत्युपदिश्यते । एवमित्यनेनैतत् कथयति-यथा विषयस्य बवादेभंदाद् द्वादशप्रकारोऽवग्रहोऽभिहितः क्षयोपशमोत्कर्षापकर्षादेवम् ईहादीनामाप ईहापायधारणानामपि जानीयाद् बहवीहते अल्पमीहवे बहुविधमीहते एकविधमीहते क्षिप्रमीहते चिरेणेहते अनिश्रितमीहते निश्रितमीहते उक्तमीहते अनुक्तमीहते । द्वितीयविकल्पे निश्चितमीहते सन्दिग्धमीहते ध्रुवमीहते अध्रुवमीहते। एवमपायेऽपि वपतीत्यादयो द्वादशविकल्पाः धारणायां च बहु धारयतीत्यादयो द्वादशैव, एवमवग्रहादीनां स्वस्थाने द्वादशविधम् ॥ १६ ॥