________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
कतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः । यद्वा अवधानम्-आत्मनोऽर्थसाक्षात्करणन्यापारोऽवधिः । अवधिश्चासौ ज्ञानं चावधिज्ञानम् । ४ तथा परिः सर्वतो भावे अवनं अवः “तुदादिभ्यो न कौ” इत्यधिकारे “अकतौ च" इत्यनेनौणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः। परि अव: पर्यव: मनसि मनसो वा पर्यवः मनःपर्यवः सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः । अथवा मनःपर्यय इति पाठः । तत्र पर्ययणं पर्ययः । भावेऽलप्रत्ययः । मनसि मनसो वा पर्ययो मनःपर्ययः । सर्वतस्तत्परिच्छेद इत्यर्थः । स चासौ ज्ञानं च मनःपर्ययज्ञानम् । अथवा मनःपर्यायज्ञानमिति पाठः । ततः मनांसि मनोद्रव्याणि पर्येति सर्वात्मना परिच्छिनत्ति मनःपर्यायं "कर्मणोऽण्" इति अण्प्रत्ययः । मनःपर्यायं च तज्ज्ञानं च मन:पर्यायज्ञानम् । यद्वा मनसः पर्यायाः मनःपर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यर्थः । तेषु तेषां वा संबंधि ज्ञानं मनःपर्यायज्ञानम् । ५ तथा केवलं एकमसहाय मत्यादिज्ञाननिरपेक्षत्वात् केवलज्ञानप्रादुर्भाव मत्यादीनामसम्भवात् । ननु कथमसम्भवो यावता मतिज्ञानादीनि स्वस्वावरणक्षयोपशमेऽपि प्रादुष्यन्ति । ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भविष्यन्ति, चारित्रपरिणामवत् । उक्तं च "आवरणदेसविगमे जाइ वि जायन्ति मइसयाईणि । आवरणसम्वविगमे कह ताइ न होति जीवस्स ? ॥ १ ॥ (छाया-आवरणदेशवि. गमे यान्यपि जायन्ते मतिश्रुतादीनि । सर्वावरणविगमे कथं तानि न भवन्ति जीघस्य ॥ १ ॥) उच्यते इह यथा जात्यस्य मरकतादिमणेमलोपदिग्धस्य यावन्नाधापि समूलमलापगमस्तावद्यथा यथा देशतो मलविलयः तथा तथा देशतोऽभिव्यक्तिरुपजायते, सा च कचित्कदाचित्कथंचित् भवतीत्यनेकप्रकारा, तथात्मनोऽपि सकलकाल. कलापावलम्बिनिखिलपदार्थपरिच्छेदकरणैकपारमार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्वरूपस्य यावत् नाद्यापि निखिलकर्ममलापगमः तावद्यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा देशतः तस्य विज्ञप्तिरुज्जृम्भते सा च क्वचित्कदाचित्कथंचिदित्यनेकप्रकारा । उक्तं च " मलविद्धमणेळक्तियथानकप्रकारतः । कर्मविद्धात्मविशप्तिस्तथाऽनेकप्रकारतः ॥१॥" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शन-(दर्शनं-दृश्यन्ते श्रद्धीयन्ते ज्ञायन्ते वा जीवादयः पदार्था अनेनास्मादस्मिन्वेति ) चारित्र-(चारित्रं-श्रामण्यम् ) प्रभावतो निःशेषावरणप्रहाणादशेषज्ञानव्यवच्छेदेनैकरूपा अतिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुलसति । तथा चोक्तम् " यथा जात्यस्य रत्नस्य निःशेषमलहानितः । स्फुटकरूपाभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः ॥ १ ॥” ततो मत्यादिनिरपेक्षं केवलशानं अथवा शुद्धं केवलं तदावरणमलकलङ्कस्य निःशेषतोऽपगमात् , सकलं वा केवलं प्रथमत एवाशेषतदावरणापगमत. सम्पूर्णोत्पत्तेः, असाधारणं या केवलमनन्यसदृशत्वात् । अनन्तं वा केवलं शेयानन्तत्वात् केवलं च तज्ज्ञानं च केवलज्ञानम् ॥