SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः। जीवं प्रति जघन्येनान्तर्मुहूर्त, उत्कृष्टेन उपार्धपुद्गलपरिवर्तः । नानाजीवान् प्रति नास्त्यन्तरम् ॥ ___७ भावः । सम्यग्दर्शनमौपशमिकादीनां भावानां कतमो भाव उच्यते । औदयिकपारिणामिकवर्ज त्रिषु भावेषु भवति । ८अल्पबहुत्वम् । अत्राह सम्यग्दर्शनानां त्रिषु भावेषु वर्तमानानां किं तुल्यसंख्यत्वमाहोस्विदल्पबहुत्वमस्तीति । उच्यते । सर्वस्तोकमौपशमिकम् । ततः क्षायिकमसंख्येयगुणम् । ततोऽपि शायौपशमिकमसंख्येयगुणम् । सम्यग्दृष्टयस्त्वनन्तगुणा इति ॥ एवं सर्वभावानां नामादिभिासं कृत्वा प्रमाणादिभिरधिगमः कार्यः ॥ ८॥ उक्तं सम्यग्दर्शनम् । ज्ञानं वक्ष्यामः - ॥ मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् ॥ ९॥ __ मतिज्ञानं, श्रुतज्ञानं, अवधिज्ञानं, मनःपर्यायज्ञानं, केवलज्ञान १ पंचसंवत्सरप्रमाणं युगम् । असंख्येययुगमानं पल्योपमम्। पल्योपमदशकोटिकोटिघाटतं सागरोपमम् । दशसागरोपमकोटिकोट्यात्मिकोत्सापिणि एवमवसर्पिण्यपि अनन्ताभिरुत्सर्पिण्यवसर्पिणीभिः पुद्गलपरावर्तः तस्य अर्ध अर्धपुद्गलपरावर्तः। तत्समीपमित्यर्थः । २ औपशमिकक्षायोपशमिकक्षायिकेषु । ३ अर्थाभिमुखो नियतः-प्रतिनियतस्वरूपो बोधो बोधविशेषोऽभिनिबोधः, आभनिबोध एवाभिनिबोधिक, अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमात् 'विनयादिन्य' इत्यनेन स्वार्थे इकण् प्रत्ययः । “ अतिवर्तन्ते स्वार्थ प्रत्ययकाः प्रकृतिलिङ्गवचनानि" इति वचनादत्र नपुंसकता । यथा विनय एव वैनयिक मत्यत्र । अथवा अभिनिबुध्यते अनेनास्मादस्मिन् वेति अभिनिबोध:- तदावरणकर्मक्षयोपश्.मः तेन निवृत्तमाभिनिपोधिकं आभिनिबोधिकं च तद् ज्ञानं च आभिनिबोधिकशानं-इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोध विशेष इत्यर्थः । २ तथा श्रवणं श्रुतं वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणे हेतुरुपलब्धिविशेषः, एवमाकारं यस्तु जलधारणाद्यर्थक्रियासमर्थ घटशब्दवाच्यमित्यादिरूपतया प्रधानीकृतीत्रकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः । श्रुतं च तद् शानं च श्रुतज्ञानम् । ३ तथा अवशब्दोऽधःशब्दार्थः; अव-अधोऽधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेत्यवधिः, अथवा अवधिर्मर्यादा रूपिष्वेव द्रव्येषु परिच्छेद
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy