SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्त्वार्थाधिगमसूत्रेषु १४ भागे। ४स्पर्शनम् । सम्यग्दर्शनेन किं स्पृष्टम् । लोकस्यासंख्येयभागः । सम्यग्दृष्टिना तु सर्वलोक इति ॥ __अत्राह-सम्यग्दृष्टिसम्यग्दर्शनयोः कः प्रतिविशेष इति । उच्यते । अपायसद्व्यतया सम्यग्दर्शनमपाय आभिनिबोधिकम् । तद्यो गात्सम्यग्दर्शनम् । तत्केवलिनो नास्ति । तस्मान्न केवली सम्यग्दशनी, सम्यग्दृष्टिस्तु भवति । ५ कालः । सम्यग्दर्शनं कियन्तं कालमित्यत्रोच्यते । तदेकजीवेन नानाजीवैश्च परीक्ष्यम् । तद्यथा । एकजीवं प्रति जघन्येनान्तमुहूर्त उत्कृष्टेन षट्षष्टिः सागरोपमानि साधिकानि । नानाजीवान् प्रति सर्वाद्धा । ६ अन्तरम् । सम्यग्दर्शनस्य को विरहकालः। एकं मल्लकयोः शरावयोराकारमनुसरति लोकः । अयमर्थः। प्रथमं तावदेकं शरावमधोमुखमवस्थाप्यते ततस्तस्योपरि द्वितीयमुपरिमुखं तस्याप्युपरि तृतीयमधोमुखमित्येवं व्यवस्थितशरावत्रयसदृशाकारः सकलोऽपि लोको भवतीति । स च पञ्चस्तिकायमयो धर्माधर्माकाशजीवपुद्गललक्षणैः पञ्चभिरस्तिकायैर्व्याप्तः' (प्रवचनसारोद्धारटीकायां सिद्धसेन. सूरिशेखरकृतायां द्वार १४३.) अस्य सर्वस्य लोकस्य कलया भागाश्चतुर्दश । एकैकस्य विभागोऽयमेकैकरज्जुसंमितः ॥८॥ सर्वाधस्तनलोकान्तादारभ्योपरिगं तलम् । यावत्सप्तममेदिन्या एका रज्जुरियं भवेत् ॥ ९ ॥ प्रत्येकमेवं सप्तानां भुवामुपरि वर्तिषु । तलेषु रज्जुरेकैका स्युरेवं सप्त रज्जवः ॥ १० ॥ रत्नप्रभोपरितलात् आरभ्यादिमताविषे । पर्याप्तेषु विमानेषु स्यादेषा रज्जुरष्टमी ॥११॥ तत आरभ्य नवमी महेन्द्रान्ते प्रकीर्तिता । अतः परं तु दशमी लान्तकान्ते समाप्यते ॥ १२॥ भवेदेकादशी पूर्णा सहस्रारान्तसीमनि । स्याद् द्वादश्यच्युतस्यान्ते क्रमादेवं त्रयोदशी ॥ १३ ॥ भवेद् अवेयकस्यान्ते लोकान्ते च चतुर्दशी । धर्मोर्श्वभागादूर्वाधः सप्तसप्तति रज्जवः ॥ १४॥' उपाध्याय श्रीविनयविजयजीकृतलोकप्रकाशे १२ सर्गे ।। १ एतल्लक्षणमग्रिमसूत्रे टिप्पन्यां द्रष्टव्यम् । २ सर्वाद्धा-सर्वकालः । अद्धा-समयादिकालभेदः। ३ सम्यग्दर्शनं प्राप्य पुनश्चोज्झत्वा पुनर्यावन्न सम्यग्दर्शनमासादयति स विरहकालः । सम्यग्दर्शनेन शून्यः काल इत्यर्थः ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy