________________
प्रथमोऽध्यायः । ॥ सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥ ८ ॥
१ सत्, २ संख्या, ३ क्षेत्रं, ४ स्पर्शनं, ५ कालः, ६ अन्तरं, ७ भावः, ८ अल्पबहुत्वमित्येतैश्च सद्भूतपदप्ररूपणादिभिरष्टाभिरनुयोगद्वारैः सर्वभावानां विकल्पशो विस्तराधिगमो भवति । कथमिति चेदुच्यते । १ सत् सम्यग्दर्शनं किमस्ति नास्तीति । अस्तीत्युच्यते । कास्तीति चेदुच्यते । अजीवेषु तावन्नास्ति । जीवेषु तु भाज्यम् । तद्यथा । गतीन्द्रियकाययोगकषायवेदलेश्यासम्यक्त्वज्ञानदर्शनचारित्राहारोपयोगेषु त्रयोदशस्वनुयोगद्वारेषु यथासम्भवं सद्भूतप्ररूपणा कर्तव्या ।२ संख्या। कियत्सम्यग्दर्शनं किं संख्येयमसंख्येयमनन्तमिति । उच्यते । असंख्येयानि सम्यग्दर्शनानि, सम्यग्दृष्टयस्त्वनन्ताः।३ क्षेत्रम् । सम्यग्दर्शनं कियति क्षेत्रे । लोकस्यासंख्येय
१ गतिनामकर्मोदयात् विवक्षितभवाद्भवान्तरगमनयोग्यत्वं गतेर्लक्षणम् । २ अङ्गोपाङ्गकर्मनिर्माणनामकर्मोदयात्प्राप्यानि स्वगादीनीन्द्रियाणि । ३ पुद्गलघटितत्वे सत्यात्मनो निवासरूपत्वं कायस्य लक्षणम् । ४ कलुषयन्ति शुद्धस्वभावं सन्तं कर्म मलिनं कुर्वन्ति जीवमिति कषायाः।
५ यदशाद्यत्पारतन्त्र्यादभिलाषो वाञ्छा भवति-जायते । ते त्रिविधाः१ स्त्रीवेदः २ पुंवेदः ३ नपुंसकवेदः । तत्र स्त्रियाः पुंस्यभिलाषः स्त्रीवेदः, पुंसः स्त्रियामभिलाषः धुंवेदः, उभयोरप्यभिलाषो नपुंसकवेदः ।
६ लिश्यते श्लिष्यते कर्मणा सह आत्मा अनयेति लेश्या, अध्यवसायः । मनोयोगपरिणामजन्यत्वं लेश्याया लक्षणम् ।
७ तत्त्वार्थश्रद्धानम् ।
८ चतुर्दशरज्जुप्रमाणावगाहो लोको भवति । इह रज्जुविधा । औपचारिकः पारमार्थिकश्च । तत्र लोकानां बुद्धिस्थैर्याय दृष्टान्तप्रायः प्रथमः स च यथा-'जोयणलख्खपमाणं निमसमित्तेण जाइ जो देवो । ता छम्मासे गमणं एवं रज्जु जिणा बिति' । छाया-योजनलक्षप्रमाणं निमेषमात्रेण याति यो देवः । ततूषण्मासे गमनमेवं रज्जु शापयन्ति । इति । द्वितीयस्तु सर्वासंख्यातद्वीपसमुद्रयोजनप्रमाणः ।
___' केवलद्वीपपयोधिपर्यन्तवर्तिनः स्वयंभूरमणाभिधानजलनिधेः परतटवर्तिपूर्ववेदिकान्तादारभ्य यावत्तस्यैव तोयधेरपरवेदिकान्त एतावत्प्रमाणा रज्जुरवगन्तव्या अधस्तादधोभागोऽधोमुखमल्लकतुल्योऽधोमुखीकृतशरावसदृक्षाकार उपरि पुनः संपुटस्थितयो