SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्त्वार्थाधिगमसूत्रेषु . १० स्तानां प्रमाणनयर्विस्तराधिगमो भवति ॥ तत्र प्रमाणं द्विविधम् । 'परोक्ष प्रत्यक्षं च ' वक्ष्यते । चतुर्विधमित्येके । नयवादान्तरेण ! नयाश्च नैगमादयो वैक्ष्यन्ते ॥६॥ किं चान्यत्निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः॥ ७॥ एभिश्च निर्देशादिभिः षड्भिरनुयोगद्वारैः सर्वेषां भावानां जीवादीनां तत्त्वानां विकल्पशो विस्तरेणाधिगमो भवति । तद्यथा १ निर्देशः । को जीवः । औपशमिकादिभावयुक्तो द्रव्यं जीवः । - सम्यग्दर्शनपरीक्षायाम् । किं सम्यग्दर्शनम्। द्रव्यम् । सम्यग्दृष्टिजीवोऽरूपी नोस्कन्धो नोग्रामः । २ स्वामित्वम् । कस्य सम्यग्दर्शनमित्येतदात्मसंयोगेन परसंयोगेनोभयसंयोगेन चेति वाच्यम् । आत्मसंयोगेन जीवस्य सम्यग्दर्शनम् । परसंयोगेन जीवस्याजीवस्यं जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पाः। उभय १ अ. १ सू. १० भाष्यम् । २ 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इति गौ. सू. १-१-३ ३ अ. १ सू ३४। ४ अरूपी-अविद्यमान रूपमस्ति इत्यरूपी सर्वधनादिषु क्षेपः नासौ रूपादिधर्मसमन्वितः किन्त्वमूर्त आत्मेति। ५ पञ्चास्तिकाय-(५.१,५-२) समुदितिः स्कन्धः । नोशब्दस्य तद्देशत्वान्नोस्कन्धः सम्यग्दृष्टिः । एवं नोग्रामोऽपि वक्तव्यः । स्कन्धः-अ. ५ सू. २५. ६ यदा एकं साध्वादिकं जीवं प्रतीत्य सम्यक्त्वमुत्पद्यते तदा निमित्तापेक्षया जीवस्यैव। १ इह यस्य सम्यग्दर्शनमागतं स जीवो न विवक्षितः। १ एवं अर्हत्प्रतिमापेक्षयाऽजीवस्य। द्वयोः साध्वादीनामन्यतमजीवयोर्निमित्रयोरेवापेक्षयाजीवयोरिति भङ्गः। ३ एवं द्वयोरर्हत्प्रतिमयोः। ४ बहूनां साध्वादीनां निमित्तभूतानामपेक्षया जीवानामिति भङ्गः। ५ एवं बहूनामर्हत्प्रतिमानाम् । ६ सर्वेष्वपि एतेषु प्राप्तसम्यक्त्वो जीवो नापक्ष्यते परसंयोगस्यैवाधिकारविवक्षणात् । उत्तरसंयोगे आत्मपरसंयोगचिन्ता कार्या ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy