SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः। पर्यायान्तरेणापि नामद्रव्यं, स्थापनाद्रव्यं, द्रव्यद्रव्यं, भावतो द्रव्यमिति । यस्य जीवस्याजीवस्य वा नाम क्रियते द्रव्यमिति तन्नामद्रव्यम् । यत्काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते द्रव्यमिति तवं. स्थापनाद्रव्यम् । देवताप्रतिकृतिवदिन्द्रो, रुद्रः, स्कन्दो, विष्णुरित । द्रव्यद्रव्यं नाम गुणपर्यायवियुक्तं प्रज्ञास्थापितं धर्मादीनामन्यतमत् । केचिदप्याहुः 'यवइ द्रव्यतो द्रव्यं भवति तच्च पुद्गलद्रव्यमेवेति प्रत्येतव्यम् । 'अणवः स्कन्धाश्च' 'सङ्घातभेदेभ्य उत्पद्यन्ते' इति वक्ष्यामः । भावतो-द्रव्याणि धर्मादीनि सगुणपर्यायाणि प्राप्तिलक्षणानि वक्ष्यन्ते । आगमतश्च प्रोभृतज्ञो द्रव्यमिति भव्यमाह । 'द्रव्यं च भव्ये । भव्यमिति प्राप्यमाह। भूप्राप्तावात्मनेपदी । तदेवं पाप्यन्ते प्राप्नुवन्ति वा द्रव्याणि । एवं सर्वेषामनादीनामादिमतां च जीवादीनां भावानां मोक्षान्तानां तत्त्वाधिगमार्थ न्यासः कार्य इति ॥५॥ प्रमाणनयैरधिगमः ॥६॥ एषां च जीवादीनां तत्त्वानां यथोद्दिष्टानां नामादिभिर्य १ प्रधानशब्दस्य तदर्थशब्दान्तराणि पर्यायः । पर्यायादन्यः पर्यायः पर्यायान्तरम् , तेनाप्यस्य चतुष्टयस्य न्यासः कार्यः । २ अ. ५ सू. २५ ३ अ. ५ सू. २६ ४ अ. ५ सू. ३७ ५ 'प्राभृतज्ञ' इति आगमे पूर्वाख्ये (२-४९) कथ्यमाने 'प्राभृतज्ञ' इति शब्दप्राभृतं, तच्च पूर्वेऽस्ति, यत इदं व्याकरणमायातं, तत् शब्दप्राभृतं यो जानाति स प्राभृतशो गुरुरेवं ब्रवीति, न चैवमहमेव वच्मि इति भावः । ६ पा. सू. ५-३-१०४ । ७ पाणिनिधा. पा. चुरादिगणे । ८ प्रमाणनयतत्त्वालोकालङ्कारे प. १ सू. १-२ । तत्त्वार्थ. १-३५ .. ९ अ. १ सू. ३५ १. अधिगमः-ज्ञानम् । . ----
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy