________________
प्रथमोऽध्यायः ।
दर्शनोपयोगस्वाभाव्यात् तानि तानि परिणामाध्यवसायस्थानान्तराणि गच्छतोऽनादिमिथ्यादृष्टेरपि सतः परिणामविशेषादपूर्वकरणं तादृग्भवति येनास्यानुपदेशात्सम्यग्दर्शनमुत्पद्यत इत्येतन्निसर्गसम्यग्दर्शनम् । अधिगमः अभिगम आगमो निमित्तं श्रवणं शिक्षा उपदेश इत्यनान्तरम् । तदेवें परोपदेशाद्यत्तत्त्वार्थश्रद्धानं भवति तदधिगमसम्यग्दर्शनमिति ॥३॥ ॥ जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥४॥
१ जीवा २ अजीवा ३ आस्रवा ४ बन्धः ५संवरो ६ निर्जरा ७ मोक्ष इत्येष सप्तविधोऽर्थस्तत्त्वम् । एते वा सप्त पदार्थास्तत्त्वानि। ताल्लक्षणतो विधानतश्च पुरस्ताद्विस्तरेणोपदेक्ष्यामः ।
नामस्थापनाद्रव्यभावतस्तन्यासः ॥ ५ ॥
एभिर्नामादिभिश्चतुर्भिरनुयोगद्वारैस्तेषां जीवादीनां तत्त्वानां न्यासो भवति । विस्तरेण लक्षणतो विधानतश्चाधिगमार्थ न्यासो निक्षेप इत्यर्थः । तद्यथा-१ नामजीवः २ स्थापनाजीवो ३ द्र. व्यजीवो ४ भावजीव इति । नाम, संज्ञा, कर्म इत्यनान्तरम् ।
१ यदा यदोपयुङ्क्ते तदा तदा सुख्यहं दुःखितोऽहमिति साकारानाकारोपयोगबलाच्चेतयते तेनास्यानुभव इत्यर्थः ।।
२ अपूर्वकरणम् अप्राप्तपूर्व तादृशमध्यवसायान्तरं जीवेनेत्यपूर्वकरणमुच्यते । किंच भव्यजीवो येन परिणामेन रागद्वेषरूपां दुर्भद्यग्रन्थिं लङ्घयति स परिणामः शास्त्रेऽपूर्वकरणमुच्यते । अयं परिणामः कदाचिदेव लभ्यतेऽतस्तस्यापूर्वकरणमिति संज्ञा ।
३ जीवः (२-८), अजीवस्तद्विपरीतः ( अ. ५ ), आस्रवः-आत्मधर्मत्वे सति कर्मबन्धासाधारणकारणम् (६-१, ६-२), बन्धः-अभिनवकर्मग्रहणम् , आभनवपदेन संक्रमव्यवच्छेदः (८-२, ८-३), संवरः-आश्रवविपरीतः, विपाकात्तपसा वा कर्मपरिशाटो कर्मात्मसंयोगध्वंसः निर्जरा(९-३), मोक्षः-कृत्स्नकर्मक्षयलक्षणः (१०.३) आत्मनः स्वभावसमवस्थानम् ।
४ अनुयोजनमनुयोगः । अनुरूपो योग: अनुयोगः । अनुकुलो वा योगोऽनुयोगः । अनुयोगः-व्याख्यानं विधिप्रतिषेधाभ्यामर्थप्ररूपणम् ।